SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव लब्धयः चूर्णिः // 91 // त्तरं द्वितीयेन नन्दीश्वरं यान्ति, वलन्तः एकेनैव स्वस्थानं, ऊर्द्धमेकेन नन्दनं द्वितीयेन पाण्डुकं वलन्त एकेनैव स्वस्थानं, ते रविकरानपि स्वीकृत्य गच्छन्ति, जङ्घाचारणास्त्वेवमेव विद्याचारणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनैवोत्पातेन स्वस्थानमायान्ति / तथा आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते द्विधा-जातितः कर्मतश्च, जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः। वृश्चिकविषं हि उत्कर्षतो [अर्द्ध] भरतक्षेत्रप्रमाणं शरीरं व्याप्नोति, मण्डूकविषमपि भरतक्षेत्रप्रमाण[ भुजङ्गमविषं जम्बूद्वीपप्रमाणं, मनुष्यविषं समयक्षेत्रप्रमाणं], कर्मतश्च पञ्चेन्द्रियतिर्यग्योनयो मनुष्याः, देवाश्चासहस्रारात्, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकादिसाध्यां क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीति भावः। देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो ज्ञेयाः, ते हि पूर्व नरभवे समुपार्जिताशीविषलब्धयः [सहस्रारान्तदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाशीविषलब्धि] संस्कारादाशीविषलब्धिमन्तो व्यवह्रियन्ते, ततः परं तु पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तन्यपदेशभाजः, तेऽपि शापादिना परं व्यापादयन्ति तथा (तथापि) न लब्धिव्यपदेशः, भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात् , गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धं / केवलिनश्च प्रसिद्धाः, मनोज्ञानिन इति मनःपयार्य [ज्ञानिनः, मनःपर्याय] ज्ञानं विपुलमतिरूपं गृह्यन्ते ऋजुमतिरूपस्य प्रागेव गृहीतत्वात् तत्र, विपुलं-विशेषोपेतं वस्तु मन्यते-गृह्णातीत्यर्थः। पूर्वाणि धारयन्ति पूर्वधरा-दशचतुर्दशपूर्वविदः, अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवाश्च प्रसिद्धा एव, एते हि सर्वे चारणादयो लब्धिविशेषाः॥ 70 // इह चाहत्त्वं चक्रवर्त्तित्वं वासुदेवत्वं च ऋद्धयः प्रतिपादितास्तत्र तदतिशयप्रतिपादनार्थ गाथापञ्चकमाह // 91 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy