SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ लब्धया आवश्यकनिर्युक्तेरव चूर्णिः // 9 // सुगन्धाश्चैते भवन्ति विडादयस्तल्लब्धिमतां, इयमत्र भावना-इहामौषधिलब्धिः कस्यापि शरीरैकदेशे समुत्पद्यते, कस्यापि सर्वस्मिन् शरीरे, तेनात्मानं परं वा यदा व्याध्यपगमबुद्ध्या परामृशति तदा तदपगमो भवति, विडादिमिरपि लब्धिमन्तो यदात्मानं परं वा रोगापनयनबुद्ध्या परामृशति तदा तद्रोगापगमः / तथा यः सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः, यद्वा श्रोतांसि-इन्द्रियाणि सम्भिन्नान्येकैकशः सर्वविषयैर्यस्य स सम्भिन्नश्रोताः-एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् | योऽवगच्छति स[सम्भिन्नश्रोता]इत्यर्थः, यद्वा श्रोतांसि-इन्द्रियाणि सम्भिन्नानि-परस्परत एकरूपतामापन्नानि यस्य स तथा, अथवा द्वादशयोजनविस्तृतस्य चक्रवर्त्तिकटकस्य युगपत् ब्रुवाणस्य तत्तूर्यसङ्घातस्य वा युगपदास्फाल्यमानस्य सम्भिन्नान् शब्दान् शृणोति स तथा / एवं च सम्भिन्नश्रोतृत्वमपि लब्धिरेव / तथा ऋज्वी-प्रायो घटादिमात्रसामान्यग्राहिणी मतिः ऋजुमतिःविपुल[मति मनःपर्यायज्ञानापेक्षया किश्चिदविशुद्धतरं मनःपर्यायज्ञानमेवेत्यर्थः / तथा सर्व एव विण्मूत्रकेशनखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादीषधयो यस्यासौ सर्वोषधिः, अथवा सर्वा-आमोषध्यादिका औषधयो यस्यैकस्यापि साधोः स (सर्वोषधिः) एवमेते ऋद्धिविशेषा बोद्धव्याः॥६९॥ अतिशायिगमनागमनलब्धिसम्पन्नाश्चारणाः ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, ये चारित्रतपोविशेषप्रभावतः समुद्भूतातिशय(शायि गमनागमनलब्धिसम्पन्नास्ते जलाचारणाः, ते च प्रथमो. त्पातेन त्रयोदशं रुचकद्वीपं यान्ति वलन्तः प्रथमोत्पातेन नन्दीश्वरे द्वितीयेन यतो गतास्तत्राऽऽयान्ति, ऊर्द्धमेकेनैव मेरुशिरसि पाण्डुकवनं वलन्त एकेन नन्दनवनं द्वितीयेन स्वस्थानं, तेषां हि चारित्रातिशयप्रभावतो भवति, लब्धिरपि हीयते ततो वलन्तो द्वाभ्यामुत्पाताभ्यां स्वस्थानं यान्तीति / ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्धयस्ते विद्याचारणाः, ते चैकोत्पातेन मानुषो // 9 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy