SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः गत्यादिमार्गणा लब्धयश्च गा.६९-७० // 89 // सम्यग्दृष्टिरेव 8, ज्ञानदर्शनद्वारयोर्गतिवत् 9-10, [संयतद्वारे संयता असंयताः] संयतासंयता गतिवत् 11, साकारोपयोगे | आद्या नान्ये (अन्ये भाज्याः) गतिवत् / अनाकारोपयोगे आद्या [एव] नान्ये 12, आहारका गतिवत् , अनाहारकाश्चापान्तरालगतौ आद्या अपरे च सम्भवन्ति, प्रतिपतितसम्यक्त्वानां तिर्यड्मनुष्येभ्यो देवनारकत्वेनोत्पद्यमानानामवधेः प्रतिपत्तेरपि सम्भवात् 13, भाषकपरीत्तद्वारे प्राग्वत् 14-15, षभिः पर्याप्तिभिर्ये पर्याप्तास्ते आद्या सन्ति अन्ये भाज्याः, अपर्याप्तका अपि षट्पर्याप्त्यपेक्षया करणापर्याप्तास्ते द्वे सम्भवन्ति 16, सूक्ष्मादीनि द्वाराणि 4 द्रव्यप्रमाणादीनि 8 च प्राग्वत् , उक्तमवधिज्ञानं, तच्चतुर्की द्रव्यादिभेदात् , तत्र द्रव्यतोऽवधिज्ञानी जघन्यतोऽनन्तानि रूपिद्रव्याणि उत्कर्षतः सर्वाण्यपि रूपिद्रव्याणि जानाति पश्यति च, क्षेत्रतो जघन्यतोऽङ्गलासययेयभागं उत्कर्षतोऽलोके लोकप्रमाणमात्राणि सङ्ख्यातीतानि खण्डानि, कालतो जघन्यतोऽसङ्ख्येयभागमावलिकाया उत्कर्षतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिणीः, भावतो जघन्यतोऽनन्तान् भावान् सर्वभावानां चानन्तभागं जानाति पश्यति // 68 // एष चावधिः ऋद्धिविशेषो वर्ण्यते, तत ऋद्धिप्रतिपादनावसाराच्छेषर्द्धयोऽपि वर्ण्यन्ते, ता एवाह आमोसहि विप्पोसहि, खेलोसहि जल्लमोसही चेव / संभिन्नसो उजुमइ, सव्वोसहि चेव बोद्धव्वो // 69 // चारणआसीविस, केवली य मणनाणिणो य पुव्वधरा / अरहंत चक्कवट्टी, बलदेवा वासुदेवाय // 7 // आमर्षणमामर्षः-संस्पर्शनं, स एवौषधिर्यस्यासावामौषधिः, करादिसंस्पर्शनमात्रादेव व्याध्यपनयनसमर्थः, लब्धिलब्धिमतोरभेदोपचारात्साधुरेवामौषधिलब्धिरित्यर्थः, एवं शेषपदेष्वपि भावना कार्या / तथा मूत्रस्य पुरीषस्य वाऽवयवो विगुड् इत्युच्यते, अन्ये त्वाहुर्विडिति विष्टा प्र(व) इति प्रश्रवणं, ते औषधिर्यस्यासौ विघुडौषधिः, तथा खेल:-श्लेष्मा जल्लो-मला, // 89 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy