________________ गत्यादि आवश्यकनियुक्तेरव चूर्णिः मार्गणाः *** // 88 // ज्ञानस्य प्रतिपत्तारः प्रागुक्तास्तेऽवधिज्ञानस्यापि प्रतिपत्तव्याः, नवरं पूर्व मतेरवेदका अकषायिणो मनःपर्यायज्ञानिनश्च पूर्वप्रतिपन्ना एवोक्ताः, इह तु प्रतिपद्यमाना अपि द्रष्टव्याः, यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषाञ्चिदवधिरुत्पद्यते, येषां चानुत्पन्नावधीनां मतिश्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते ते च मनःपर्यायज्ञानिनः केचित्पश्चादवधेः प्रतिपत्तारः स्युः। अन्यच्च-अनाहारका अपर्याप्तकाश्च मतेः पूर्वप्रतिपन्ना एवोक्ताः, न तु प्रतिपद्यमानकाः, इह तु ये अप्रतिपतितसम्यक्त्वास्तिर्यड्मनुष्येभ्यो देवनारका जायन्ते ते अपान्तरालगत्यादावधेःप्रतिपद्यमानका अपि प्रतिपत्तव्याः, शक्तिमङ्गीकृत्येति भावार्थः / पूर्वप्रतिपन्नाः पुनर्ये एव मतेः प्रागुक्तास्ते एव द्रष्टव्याः, नवरं द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियतिरश्चो मुक्त्वा, ते हि सास्वादनसम्यग्दृष्टयो मतेः पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना इति, शेषं तथैव / एतदेव विनेयजनानुग्रहाय सविस्तरं भाव्यते, तत्रैवं सत्पदप्ररूपणावतारः-कोऽपि शिष्यो गुरुं पृच्छति, भगवन् ! अवधिज्ञानं किमस्ति ? नास्ति ? इति, गुरुराह नियमादस्ति, कथमवगन्तव्यं ?, गुरुराह 'गइ इंदिए'त्यादि गाथाद्वयोक्तगत्यादिमार्गणास्थानविंशत्या, तत्र गतिद्वारे चतुर्विधायामपि गताववधेः पूर्वप्रतिपन्ना नियमतः सन्ति, अन्ये भाज्याः 1, इन्द्रियद्वारे एकद्वित्रिचतुरिन्द्रियेषूभयाभावः, पञ्चेन्द्रियेषु गतिवत् 2, पृथिव्यप्तेजोवायुवनस्पतिषूभयाभावः, त्रसकायेषु गतिवत् 3, मनोरहितवाग्योगेषु केवलकाययोगेषु चोभयाभावः 4, त्रिष्वपि वेदेषु गतिवत् , अवेदकेषु तूभयमपि भाज्यं 5, एवं कषायद्वारेऽपि 6, उपरितनीषु तिसृषु लेश्या गतिवत् , आद्यासु तिसृष्वाद्याः सन्ति न वितरे, सम्यक्त्वद्वारे निश्चयव्यवहाराभ्यां विचारः, तत्र व्यवहारनयमतेन | मिथ्यावृष्टिः सम्यग्दृष्टिश्चावधेः प्रतिपत्ता, पूर्वप्रतिपन्नस्तु सम्यग्दृष्टिरेव, निश्चयनयमतेन प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चावधेः BattER // 8 //