________________ आवश्यकनिर्युक्तेरव गत्यादिमार्गणाः गा. 68 चूर्णिः // 87 // | भ्यामिति पुरुषः, तस्माद् अबाधा-अपान्तरालं पुरुषाबाधा तया हेतुभूतया असम्बद्धः। स च सम्बद्धोऽसम्बद्धश्चावधिः क्षेत्रतः कियान् भवतीत्याह-सङ्ख्येयोऽसङ्ख्येयश्च योजनापेक्षया भवति, अत्रापि मः पूर्ववत् , असम्बद्धोऽप्यवधिः क्षेत्रतः सङ्ख्येयानि वा योजनानि स्यादऽसङ्ख्येयानि वा, एवं सम्बद्धोऽपि, पुरुषस्यावधेश्चापान्तरालमपि सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि भवति / सा च पुरुषाबाधा असम्बद्धे एवावधौ भवति न तु सम्बद्धे, तत्र सम्बद्धत्वेनैव तदसम्भवात् , इह चासम्बद्धेऽवधावपान्तराले च चतुर्भङ्गिका-सङ्ख्येयमन्तरं सङ्ख्येयोऽवधिः 1, सङ्ख्येयमन्तरमसङ्ख्येयोऽवधिः 2, असङ्खयेयमन्तरं सङ्ख्येयोऽवधिः 3, असङ्ख्येयमन्तरमसङ्ख्थेयोऽवधिः 4, सम्बद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावात् / तथायमवधिोके अलोके च सम्बद्धोऽपि भवति / इह लोकशब्देन लोकान्तः परिगृह्यते, तथा पूर्वसूरिकृतव्याख्यानात् , अत्रापि चतुर्भङ्गिका-पुरुषे सम्बद्धो लोकान्ते चायं च लोकप्रमाणावधिरेव 1, पुरुषे सम्बद्धो न लोकान्ते देशतोऽभ्यन्तरावधिः 2, न पुरुषे सम्बद्धः किन्तु लोकान्ते एकदिग्वर्ती बाह्यावधिः 3, शून्योऽयं भङ्ग इति हारिभद्रीया टीका तदसम्यक् , चूर्णौ भाष्ये चाऽप्रतिषेधादसम्भवहेत्वभावाच्च, तथा न लोकान्ते सम्बद्धो नापि पुरुषेऽसम्बद्धो बाह्यावधिरेव स्तोकदेशवती 4, यस्त्वलोके सम्बद्धः स पुरुषे नियमात् सम्बद्ध एव, अभ्यन्तरावधेरेवालोकदर्शनसमर्थत्वात् // 67 // गतं क्षेत्रद्वारं 13, गतिद्वारमाह गइ नेरइयाईआ, हिट्ठा जह वणिया तहेव इहं / इड्डी एसा वणिज्जइत्ति तो सेसियाओवि॥ 68 // गति रयिकादिका, गतिग्रहणं शेषस्येन्द्रियादिद्वारकलापस्योपलक्षणं, ततोऽयमर्थः-ये गत्यादयः सत्पदप्ररूपणाहेतवः ये च द्रव्यप्रमाणादयोऽष्टौ द्वारविशेषास्ते यथा अधस्तान्मतिश्रुतयोवर्णितास्तथैवेहाऽपि द्रष्टव्याः, अयं तु विशेषः-ये पूर्व मति .XXXREEEEEEEXXXXXX PRAKEEKX