________________ आवश्यकनिर्युक्तेरव चूर्णिः सम्बद्धवासम्बद्धौ शेन पश्यन्ति, न तु शेषा देशत एव, तिर्यङ्गनराणां देशतः सर्वतश्च यथायोगमवधिना दर्शनात् , इति सावधारणं ज्ञेयम् / अथवाऽन्यथा व्याख्यायते-नैरयिकदेवतीर्थकरा अवघेरबाह्या भवन्ति, कोऽर्थः -नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीति भावः, एवं चाभिहिते सति संशयः-किं ते देशेन पश्यन्ति उत सर्वत इति, तदपनोदार्थमाह-पश्यन्ति सर्वतः खलु न तु देशतः। अपर( अत्र पर) आह-ननु पश्यन्ति सर्वतः खल्वित्येतावदेवास्तु अवघेरबाह्या भवन्तीत्येतन्न युक्तं, यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, नियतावधित्वं च देवनारकाणां 'दुण्हं भवपच्चइअं, तंजहा-देवाणं नेरइआणं च' इति वचनात्सिद्धं, तीर्थकृतां तु पारभविकावधिसमन्वागमस्यातिप्रसिद्धत्वात् , उच्यते-इह यद्यपि 'दुण्हं भवपञ्चइयं' इत्यादिवचनतो नारकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, तख्यापनार्थमवधेरबाह्या भवन्तीत्युक्तं / यद्येवं तर्हि तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छद्मस्थकालस्यैव तेषां विवक्षणात् / अथवा केवलोत्पत्तावपि | वस्तुतस्तत्परिच्छेदस्याप्यनष्टत्वात् , केवलेन सुतरां सम्पूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, शेषं प्राग्वत् // 66 // गतं देशद्वारं 12, अथ क्षेत्रद्वारं विवरीषुराह संखिजमसंखिज्जो, पुरिसमबाहाइ खित्तओ ओही / संबद्धमसंबद्धो, लोगमलोगे य संबद्धो // 67 // कश्चित् क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव सम्बद्धो लग्नो भवति, जीवावष्टब्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं | वस्तु प्रकाशयतीति भावः, कश्चित्पुनरतिविप्रकृष्टं तमोव्याकुलमन्तरालवर्तिनं प्रदेशमुल्लङ्घ्य दूरस्थितभित्त्यादिप्रतिस्फलितप्रदीपप्रभेवासम्बद्धो जीवे भवति, कया हेतुभूतयासम्बद्ध इत्याह-'पुरिसमबाहाए' इति मकारोऽलाक्षणिकः, पूर्यते सुखदुःखा // 86 //