________________ अवधेरबाह्याः चूर्णिः भवनपतिदेवेभ्य आरभ्य तिर्यड्मनुष्यवर्जमुपरिमग्रैवेयकेषु यावत्साकारानाकाराववधिविभङ्गको तुल्यौ, इयं भावना-नारका आवश्यक निर्युक्तेरव-| भवनपत्यादयश्चोपरितनप्रैवेयकविमानवासिपर्यन्ता देवा ये ये जघन्यतुल्यस्थितयो मध्यमतुल्यस्थितय उत्कृष्टतुल्यस्थितयो वा तेषां तेषां अवधिविभाज्ञानदर्शने क्षेत्रकालरूपी विषयावधिकृत्य परस्परतस्तुल्ये न तु द्रव्यभावविषयौ तावङ्गीकृत्य, तुल्यस्थितिकानामपि सम्यदर्शनं विशुद्धतपःकर्मादिकं च प्राग्भवगतं कारणं प्रतीत्यातिदूरतरं तुल्यत्वाभावात् / तथा ग्रैवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेषु ज्ञानदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानं, मिथ्यादृष्टीनां तत्रोपपाताभावात् , स चाऽसङ्ख्यात. क्षेत्रकालविषयो भवति, द्रव्यभावस्त्वनन्तविषयः, इह तिर्यङ्मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्रमन्दतादिकारणवैचिच्यात्त क्षेत्रकालविषययोरप्यवधिविभङ्गज्ञानदर्शनयोर्विचित्रता, न पुनस्तुल्यतैवेतीह तद्वर्जनं // 65 // गतं ज्ञानादिद्वारं 9-10-11, अथ देशद्वारं प्रचिकटयिषुरिदमाह नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुँति / पासंति सव्वओ खलु, सेसा देसेण पासंति॥६६॥ नैरयिकाश्च देवाश्च तीर्थकराश्च ते नैरयिकदेवतीर्थकराः, चोऽवधारणे भिन्नक्रमश्च, अवधेः-अवधिज्ञानस्याबाह्या एव, अवध्युपलब्धक्षेत्रस्यान्तर्वर्तन्ते, न कदाचनापि बाह्या भवन्तीत्यर्थः, सर्वतोऽवभासकत्वात्तदवघेः प्रदीपवत् / तथा पश्यन्ति सर्वतः, खलुरेवार्थः, सर्वास्वेव दिग्विदिश्विति / नन्ववधेरबाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्य लब्धत्वात्सर्वतोग्रहणमति मरिच्यते, नैष दोषः, अभ्यन्तरत्वाभिधानेऽपि सर्वतो दर्शनाप्रतीतेः, न खल्ववधेरभ्यन्तरत्वेऽपि सति [सर्वे]सर्वतः पश्यन्ति, आव०चू० कस्यचिद्दिगन्तरालादर्शनात् विचित्रत्वादवधेः, ततः सर्वतो दर्शनख्यापनार्थ सर्वत इत्युक्तं, शेषास्तिर्यड्नरा एव देशेन-एकदे // 85 //