________________ आवश्यकनिर्युक्तेरव द्रव्यपर्याययोः परस्परमुप चूर्णिः निबन्धम् // 84 // गा. 64 विषये इत्यनुवर्तते, किं तर्हि ?, उत्पादः प्रतिपातो वा एकतर एवैकसमयेन, अपिरेवार्थः, स च भिन्नक्रमस्तथैव च योजितः, अयं भावार्थः-प्रदीपस्येवोत्पाद एव वा प्रतिपात एव वा एकसमयेनाभ्यन्तरावधेरुपजायते, न तूभयं, अप्रदेशावधित्वात् , न ह्येकस्यैकपर्यायोत्पादव्ययौ युगपद्भवितुमर्हतः, परस्परविरोधात् // 63 // इदानीं प्रसङ्गत एवोत्पादप्रतिपाताधिकारे द्रव्यपर्याययोः परस्परमुपनिबन्ध प्रतिपादयन्नाह दवाओ असंखिज्जे संखेज्जे आवि पज्जवे लहइ / दो पजवे दुगुणिए, लहइ य एगाउ दवाउ // 64 // परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी द्रव्यात्सकाशात् तत्पर्यायानुत्कृष्टतोऽसङ्ख्येयात् मध्यमतः सङ्ख्येयांश्चापि 'लभते' पश्यतीत्यर्थः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ लभते च एकस्माद्रव्यात् , इदमुक्तं भवति-सामान्यतो वर्णगन्धरसस्पर्शलक्षणांश्चतुरः पर्यायानेकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनिति / अनन्तांश्च पर्यायानुत्कर्षतोऽपि न प्रेक्षते एकद्रव्यगतान , अनन्तेषु द्रव्येषु समुदितेषु त्वनन्तांस्तान् पश्यत्येव // 64 // गतं सप्रसङ्गमुत्पादप्रतिपादद्वारं, इदानी ज्ञानदर्शनविभङ्गलक्षणं द्वारत्रयं युगपदभिधित्सुराह सागारमगारा, ओहिविभंगा जहण्णगा तुल्ला / उवरिमगेवेजेसु उ, परेण ओही असंखिज्जो // 65 // इह योऽवधिर्विशेषग्राहकः स साकारः, स च सम्यग्दृष्टेः ज्ञानमित्यभिधीयते, स एव मिथ्यादृष्टेर्विभङ्गः, यः पुनः सामान्यग्राहको अवधिविभङ्गो वा सोऽनाकारः, स च दर्शनं, तत्र साकारानाकारावधिविभङ्गी जघन्यकादारभ्य तुल्यो भवतः, लोकपुरुषग्रीवाभवानि अवेयकानि उपरिमाणि च तानि ग्रैवेयकाणि उपरिमग्रैवेयकाणि तेषु यावत्, तुरेतद्विशिनष्टि-नारक ज्ञानदर्शन विभङ्गद्वार त्रयम् गा.६५ // 84 //