SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरवचूर्णिः प्रतिपातो त्पातौ गा.६२-६३ IPL // 83 // ननु आनुगामिकाप्रतिपातिस्पर्द्धकयोः परस्परं कः प्रतिविशेषः को वाऽनानुगामिकप्रतिपातिस्पर्द्धकयोः?, उच्यते-अप्रतिपातिस्पर्द्धकमानुगामिकमेव भवति, आनुगामिकं तु प्रतिपात्यप्रतिपाति चेति विशेषः, तथा प्रतिपाति पतत्येव, पतितमपि च देशान्तरे गतस्य कदाचिजायते, न चेत्थमनानुगामिकमिति विशेषः॥६१॥ उक्तं तीव्रमन्दद्वारं अथ प्रतिपातोत्पातद्वारमाह गाथाद्वयेन बाहिरलंभे भज्जो, दवे खित्ते य कालभावे य / उप्पा पडिवाओऽवि य, तं उभयं एगसमएणं // 12 // अभितरलद्धीए, उ तदुभयं नत्थि एगसमएणं / उप्पा पडिवाओऽवि य, एगयरो एगसमएणं // 63 // इह द्रष्टुरवधिमतो योऽवधिस्तस्यैव एकस्यां दिशि भवति स बाह्यावधिः, अथवा अनेकास्वपि दिक्षु यः स्पर्द्धकावधिरन्योन्यं विच्छिन्नो भवति सोऽपि बाह्यावधिः / स्थापना० / अथवा सर्वतः परिमण्डलाकारोऽपि योऽवधिरवधिमतोऽङ्गुलमानादिना क्षेत्रव्यवधानेन सर्वतोऽसम्बद्धः सोऽपि बाह्यावधिः / तस्यैवंविधस्य 'बाह्यस्य' बाह्यावधेर्लामे-प्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कः?, 'उत्पाद' उत्पत्तिः, 'प्रतिपातो' ध्वंसः, तदुभयं च एकसमयेनेति, किं विषय इत्याह-द्रव्ये क्षेत्रे काले भावे च, अपिचशब्दा यथायोगं पूरणसमुच्चयार्थाः, एकस्मिन् द्रव्यादौ विषये बाह्यावधेः कदाचिदुत्पादः कदाचिढ्ययः कदाचिदुभयं / ननूत्पादप्रतिपातयोः परस्परविरुद्धत्वात्कथमुभयमेकसमयेनेति ?, नैष दोषः, विभागेन भावात् , तथा चात्र दावानलदृष्टान्तः, दावानलः खलु एककाल एव एकतो दीप्यतेऽन्यतश्च ध्वंसते [ध्वस्यते ] तथा अवधिरप्येकदेशे जायते अन्यत्र प्रच्यवते // 62 // इह द्रष्टुर्यः सर्वतः सम्बद्धः प्रदीपस्य प्रभानिकरवत्, सोऽभ्यन्तरावधिस्तस्य-अभ्यन्तरावधेर्लब्धिः-प्राप्तिस्तस्यां सत्यां, तुर्विशेषणार्थः, किं विशिनष्टि ? तच्च तदुभयं च [तदुभयं]-उत्पादप्रतिपातरूपमुभयं नास्त्येकसमयेन, द्रव्यादौ XXXXXXXXXXXXXXXXXX // 83 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy