SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव तीव्रमन्दे स्पर्धकानि गा.६०-६१ चूर्णिः // 82 // अथ तीव्रमन्दद्वारमाहफड्डा य असंखिज्जा, संखेजा यावि एगजीवस्त / एकफड्डवओगे, नियमा सव्वत्थ उवउत्तो॥६॥ फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव / पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे // 61 // स्पर्द्धकानि प्रागुक्तस्वरूपाणि, तानि चैकजीवस्य सङ्ख्येयान्यसङ्ख्येयान्यपि च भवन्ति, तत्रैकस्पर्द्धकोपयोगे सति | नियमात्सर्वत्र-सर्वेषु स्पर्द्धकेषु उपयुक्तो भवति, एकोपयोगत्वाजीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवत्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवत् , कोऽर्थः-यः प्रकाशमयस्तस्यैकस्मिन्नप्यर्थे प्रकाशकत्वेन व्याप्रियमाणस्य सर्वात्मना व्यापारो न देशेन यथा प्रदीपस्य, जीवोऽपि ज्ञानप्रकाशेन प्रकाशवान् / ततोऽस्यापि सर्वस्पर्द्धकैरेकोपयोगतया सर्वात्मना व्यापार इति / प्रदीपस्य चोपयोगी व्यापार एव // 60 // एतानि च स्पर्द्धकानि त्रिधा भवन्ति, तद्यथा-अनुगमनशीलान्यानुगामिकानि-यत्र प्रदेशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीति भावः / एतद्विपरीतान्यनानुगामिकानि, उभयस्वरूपाणि मिश्राणि, कानिचिद्देशान्तरानुयायीनि कानिचिन्नेति भावः, एतानि च पुनः प्रत्येकं त्रिधा स्युः, तद्यथा-प्रतिपतनशीलानि प्रतिपातीनि, कियन्तमपि कालं स्थित्वा ततो ध्वंसगमनस्वभावानीति भावः, तद्विपरीतान्यप्रतिपातीनि, आमरणान्तभावीनीत्यर्थः / उभयस्वभावानि मिश्राणि, एतानि च स्पर्द्धकानि मनुष्यतिर्यक्षु चोऽवधिस्तस्मिन्नेव भवन्ति, न देवनारकावधौ / ननु तीव्रमन्दद्वारे प्रस्तुते स्पर्द्धकावधिकथनं कथं युक्तं ?, उच्यते, इह प्राय आनुगामिकाऽप्रतिपातीनि स्पर्द्धकानि तीव्रविशुद्धियुक्तत्वात्तीवाणि, अनानुगामिकप्रतिपातीनि त्वविशुद्धत्वान्मन्दानि, मिश्राणि च मध्यमानि, ततस्तीब्रमन्दद्वारमेवेदमित्यदोषः। SB TOOBS * * * *
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy