________________ द्रव्यादिवृक्ष्यादि आवश्यक निर्युक्तेरव चूर्णिः // 81 // भवति, तथाहि-यावन्ति द्रव्याणि प्रथममवधिना दृष्टानि ततः परं कोऽपि तेभ्यो अनन्तभागाधिकानि पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धानि, न त्वऽसङ्ख्यातभागादिना वृद्धानि, तथास्वाभाव्यात् , एवं हानिरपि, कोऽपि पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, कोऽप्यनन्तगुणहीनानि [नत्वसङ्ख्यातभागादिना हीनानि] तथास्वाभाव्यादेव, पर्याये पुनः पूर्वोक्का षड्विधापि वृद्धिर्हानिर्भवति / एतेषां च द्रव्यक्षेत्रकालभावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवापरस्य वृद्धिर्न त्वेकस्य हानावन्यस्य वृद्धिः, एकस्य हानावेवापरस्य हानिने त्वेकस्य वृद्धावपरस्य हानिः, अन्यच्च एकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि प्रायो भागेनैव वृद्धिहानी भवतः, न तु गुणकारेण, गुणकारेणाप्येकस्य गुणवृद्धिहान्योः प्रवर्त्तमानयोरपरस्यापि प्रायो गुणकारेणैव प्रवर्त्तते, नैव भागेन / ननु क्षेत्राधाराणि द्रव्याणि द्रव्याधाराश्च पर्यायाः, यादृश्येव वाधारस्य वृद्धिराधेयस्यापि तादृश्येव युक्ता, तथा च सति क्षेत्रस्यासङ्ख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसधेयभागादिवृद्धिः स्यात् , तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्यायाणामप्यनन्तभागादिवृद्धिरेवाप्नोति, न षट्स्थानक, पर्यायाणां [द्रव्य] | निबन्धनत्वात् , उच्यते, सामान्यन्यायमङ्गीकृत्येत्थमेव, कोऽर्थः यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसङ्ख्यायन्ते पुद्गलानुवृत्त्या च तत्पर्यायास्तदा क्षेत्रस्याऽसद्ध्येयभागादिवृद्धिहान्योः सत्योः द्रव्यस्यापि तदनुवृत्त्या तथैव वृद्धिहानी प्राप्नुतः, द्रव्यस्यापि चानन्तभागादिवृद्धिहान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धिहानी स्यातां, न चात्रैकं, यस्मात् क्षेत्रादनन्तगुणा पुद्गलास्तेभ्योऽपि तत्पर्याया अनन्तगुणाः, अवधिश्च क्षयोपशमाधीनः, क्षयोपशमः च तत्तद्रव्यादिसामग्रीवशाद्विचित्रपरिणामः, केवलज्योतिषा च भगवतैवस्वरूप एवोपलब्धः, ततो यथोक्तस्वरूपे एव वृद्धिहानी प्रतिपत्तव्ये नान्यथेति न कश्चिद्दोषः॥५९॥ उक्तं चलद्वारं, // 81 //