________________ आवश्यकनियुक्तेरव चूर्णिः चलावधिः गा. 59 // 8 // कालतोऽवस्थानमिदमाधारादिषु उत्कृष्टमेवोक्तं ज्ञेयम् / जघन्येन-जघन्यतः पुनरुपयोगलब्धी अङ्गीकृत्यावस्थानं द्रव्यादावप्येका समयः, तत्र नरतिरश्चां समयादुर्द्धमवधेः प्रतिपातादनुपयोगाद्वा एकसमयावस्थानता ज्ञेया, देवनारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद्विभङ्गज्ञानमेवावधिरूपतया परिणमति ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते तेषामवसातव्यम् // 58 // उक्तमवस्थितद्वारं, अथ चलद्वारमाह वुड्डी वा हाणी वा, चउब्विहा होइ खित्तकालाणं / दव्वेसु होइ दुविहा, छब्विह पुण पज्जवे होइ // 59 // चलश्चावधिद्रव्यादिविषयमङ्गीकृत्य वर्द्धमानको हीयमानको वा भवति, वृद्धिहानी च प्रत्येकं सामान्येनागमे षड्विधे प्रोक्ते, तद्यथा-अनन्तभागवृद्धिः 1 असङ्ख्यातभागवृद्धिः 2 सङ्ख्यातभागवृद्धिः 3 सङ्ख्यातगुणवृद्धिः 4 असङ्ख्यातगुणवृद्धिः 5 अनन्तगुणवृद्धिः 6, एवमनन्तभागहान्यादिभेदाद् हानिरपि षट् प्रकारा, एतयोश्च षड्विधवृद्धिहान्योर्मध्यादवधिविषयभूतक्षेत्रकालयोराद्यन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिानि भवति, अनन्तभागवृद्धिरनन्तगुणवृद्धिा तथा अनन्तभागहानिरनन्तगुणहानिर्वा क्षेत्रकालयोन सम्भवति, अवधिविषयभूतयोः क्षेत्रकालयोरानन्त्याभावात् , इयमत्र भावना-यावत् क्षेत्रं | प्रवर्द्धमानाख्येनावधिना प्रथम दृष्टं ततः प्रतिसमयं स प्रवर्द्धमानो अवधिः कश्चिदसङ्ख्यातभागवृद्धं पश्यति कोऽपि सङ्ख्यातभाग-1 वृद्धं कोऽपि सङ्ख्यातगुणवृद्धं कोऽप्यसङ्ख्यातगुणवृद्धं, तथा प्रथममवधिना हीयमानेन यत् क्षेत्रं दृष्टं ततः प्रतिसमयं कश्चिद| सङ्ख्यातभागहीनं पश्यति 1, कोऽपि सङ्ख्यातभागहीनं 2 कोऽपि सङ्ख्यातगुणहीनं 3 कोऽप्यसङ्ख्यातगुणहीनं एवं क्षेत्रस्य वृद्धिहनिर्वा चतुर्दा भवति, इत्थं कालेऽपि वृद्धिहान्योश्चातुर्विध्यं भावनीयं, द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिानिर्वा