SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव-| चूर्णिः अवस्थिता वधिः लब्ध्यवस्थानकाल मानम् गा.५७-५८ // 79 // द्वारं अथ गाथाद्वयेनावस्थितद्वारमाह-अवस्थितत्वं चावधेः क्षेत्रतः उपयोगतो लब्धितश्च, तत्राद्यगाथयाऽऽद्यभेदावाह| खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं / दवे भिण्णमुहुत्तो, पज्जवलंभे य सत्तट्ठ // 57 // अवस्थितिरवस्थानं, अवधेराधाररूपतालक्षणेन पर्यायेण क्षेत्रस्यावस्थानं, कालेन-कालमाश्रित्य त्रयस्त्रिंशत्सागराणि तुरेवार्थः, तथाहि-अनुत्तरसुरा यत्र क्षेत्रे येष्वेव प्रतिनियतेषु क्षेत्रप्रदेशेषु, क?, जन्मसु ये अवगाढास्ते प्रायस्तत्रैवाभवक्षयमवतिष्ठन्ते, ततस्तानधिकृत्योत्कर्षतोऽवधेरवस्थानं त्रयस्त्रिंशत्सागराणि / अथोपयोगमधिकृत्यावधेरवस्थानं द्रव्ये-द्रव्यविषये तत्रान्यत्रक्षेत्रे [च ] भिन्नश्चासौ मुहूर्त्तश्च भिन्नमुहूर्तः, अन्तर्मुहूर्त्तकालं, ततः परं सामर्थ्याऽभावात् , तत्रैव द्रव्ये ये पर्यवाः| पर्यायधर्मास्तल्लाभे पर्यायात् पर्यायान्तरं सञ्चरतोऽवधेरुपयोगमधिकृत्यावस्थानम् सप्त अष्टौ वा समयान यावत् , न परतः, पर्यायाणां सूक्ष्मतया परतस्तद्विषयेऽवस्थाने सामर्थ्याऽभावात् , अन्ये तु व्याचक्षते-पर्यवा द्विविधाः-गुणा पर्यायाश्च, तत्र सहवर्त्तिनो गुणाः शुक्लत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, गुणाः स्थूलाः पर्यायास्तु सूक्ष्माः। यथा यथा च | सूक्ष्मं वस्तु तथा तथा उपयोगस्य स्तोककालता, द्रव्यगुणपर्यायाश्च यथोत्तरं सूक्ष्मास्ततो गुणेष्वष्टौ समयान् यावदुपयोगस्यावस्थानं पर्यायेषु तु सप्त // 57 // अथ लब्धिमधिकृत्यावस्थानकालमानमाह___अद्धाइ अवट्ठाणं, छावट्ठी सागरा उ कालेणं / उक्कोसगं तु एयं, इक्को समओ जहण्णेणं // 58 // अद्धा नामावधिज्ञानावरणक्षयोपशमरूपा लब्धिरभिप्रेता, ततोऽद्धायाः-लब्धेः कालेन-कालतोऽवधेरवस्थानं, तत्रान्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्यानुपयुक्तस्य वा षट्षष्टिसागराणि, तुशब्दान्नरभवेन साधिकानि / उपसंहारमाह ********** // 79 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy