________________ अन्तमध्यगतव्याख्या आवश्यकनियुक्तेरव चूर्णिः // 78 // अवधिज्ञानवतस्तदन्ते वर्तमानत्वात् / अन्तगतश्चावधिस्त्रिधा-पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतश्च, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतःप्रेर्यमाणया पुरत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्ख्येयान्यसङ्खयेयानि वा योजनानि पश्यति, नान्यत्र, सोऽवधिः पुरतोऽन्तगतः, एवं यथा पृष्ठतो हस्तेन धृयमाणया दीपिकया पृष्ठत एव पश्यति स पृष्ठतोऽन्तगतः, येन पुनः पार्श्वत एकतो द्वाभ्यां वा सङ्ख्येयानि असङ्ख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगतः / मध्यगत इत्यत्रापि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादेरिव, तत्रात्मप्रदेशानां मध्ये-मध्यवर्तिष्वात्मप्रदेशेषु गतः-स्थितो मध्यगतः, अयं च स्पर्द्धकरूपः सर्वदिगुपलम्भकारणं मध्यवर्तिनामात्मप्रदेशानामवधिरवसातव्यः 1, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धेः, तन्मध्ये गतो मध्यगतः 2, अथवा तेनावधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये मध्यभागे गतः-स्थितो मध्यगतः अवधिज्ञानिनस्तदुद्योतितक्षेत्रमध्यवर्तित्वात् 3 / तत्रेहान्तगतो न ग्राह्यः, देवनारकाणामभ्यन्तरावधित्वात् किन्तु मध्यगतः, असौऽप्यन्त(न्त्य)व्याख्यानरूपो देवनारकाणां स्वावधिद्योतितक्षेत्रमध्यवर्त्तित्वात् , तुरेवार्थः, आनुगामिक एव यथोक्तरूपो नारकाणां नान्यः, तथैवानुगामिक एव देवानां, तथा मनुष्येषु तिर्यक्षु चानुगामिक उक्तशब्दार्थः / तथाऽनानुगामिको अवस्थितशृङ्खलादिनियत्रितप्रदीप इव यो गच्छन्तं पुरुषं नानुगच्छति, यस्योत्पन्नस्यावधेर्देशो ब्रजति स्वामिना सहाऽपरश्च देशः प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न ब्रजति स मिश्र उच्यते / अयं गाथार्थः-देवनारकाणां सर्वात्मप्रदेशजाभ्यन्तरावधिरूपमध्यगतः आनुगामिकोऽवधिः, तिर्यग्मनुष्याणां तु सर्वभेदः-आनुगामिकोऽनानुगामिको मिश्रश्चेति भावार्थः॥५६॥ उक्तमानुगामिक // 78 //