________________ आवश्यकनिर्युक्तेरव TRY चूर्णिः // 77 // | संस्थानप्रतिपादनेनेदमावेदितं-भवनपतिव्यन्तराणामूर्द्ध प्रभूतोऽवधिर्वैमानिकानामधः ज्योतिष्कनारकाणां तिर्यक् विचित्रस्तुआनुगामिकं नरतिरश्चां // 55 // उक्त संस्थानद्वारं 2, अथ सप्रतिपक्षानुगामिकद्वारार्थ प्रचिकटयिषयाह गा. 56 अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं / अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे // 56 // अन्तमध्य गच्छन्तं पुरुषमासमन्तात् अनुगच्छतीत्येवंशीलः अनुगामी अनुगाम्येवानुगामिकः स्वार्थे कः। आनुगामिकश्चावधिर्द्विधा- गतव्याख्या अन्तगतो मध्यगतश्च, तत्रान्तगत इति कः शब्दार्थः ?, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयं, अन्ते-आत्मप्रवेशानां अन्ते गतः, कोऽर्थः इहावधिरुत्पद्यमानः कोपि स्पर्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभायाः गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः / तानि चैकजीवस्यासङ्ख्येयानि सङ्ख्येयानि वा भवन्ति, विचित्ररूपाणि कानिचित्पर्यन्तवर्तिष्वात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिन्मध्यवर्तिष्वात्मप्रदेशेषु, तत्र यः पर्यन्तवर्तिष्वात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थितः इति कृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवर्चिभिरात्मप्रदेशः साक्षादवबोधः 1, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कयाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरान्ते कयाचिद्विवक्षितया दिशा यशादुपलभते सो अप्यन्तगतः, विचित्रो हि देशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः // 77 // सर्वेषामप्यात्मप्रदेशानामित्थम्भूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीत्येष द्वितीयोऽर्थः 2 / तृतीयः पुनरयं-एकदिग्भाविना तेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्त्तते सोऽवधिरन्तगतः, 8BB****