SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव अवधेः संस्थानम् गा. 55 चूर्णिः // 76 // SBE भ्राम्यमाणतया व्याप्यमानस्य क्षेत्रस्य एतदाकारभावात् , तथा न जघन्यो नाप्युत्कृष्टोऽजघन्योत्कृष्टो मध्यम एव, क्षेत्रतोऽनेकसंस्थानः, च एवार्थः, एवं जघन्योत्कृष्टावधिसंस्थानमुक्तं // 54 // अथ विमध्यमावधिसंस्थानमाह तप्पागारे पल्लग पडहग झल्लरि मुइंग पुप्फ जवे / तिरियमणुएस ओही, नाणाविहसंठिओ भणिओ॥५॥ तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स चायतस्यत्रश्च भवति, तस्येवाकारो यस्यासौ तप्राकारोऽवधि रकाणां, पल्लको लाटदेशे धान्याधारविशेषः, स चोर्दायत उपरि च किश्चित्संक्षिप्तः, आकार इति वर्तते, तस्येवाकारो यस्यासौ पल्लकाकारो भवनपतीनां, एवमाकारशब्दः सर्वत्र योज्यः / पटहः-आतोद्यविशेषः स च | किंचिदायत उपर्यधश्च समप्रमाणः, तदाकारोऽवधिय॑तराणाम् , उभयतो विस्तीर्णा चौवनद्धमुखा मध्ये संक्षिप्ता ढक्काकारा झल्लरी आतोद्यविशेषरूपा तदाकारोऽवधिः ज्योतिष्कानां, मृदङ्गो-वाद्यविशेषः स चाधस्ताद्विस्तीर्ण उपरि च तनुः सुप्रतीतस्तदाकारोऽवधिः सौधर्माद्यच्युतपर्यन्तदेवानां, 'पुप्फत्ति पदैकदेशे पदसमुदायोपचारात् सशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी, तदाकारोऽवधिपँवेयकविमानवासिदेवानां, 'जव' इति यवनालक इति द्रष्टव्यं, यवनालको नाम कन्याचोलकः स च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो भवति येन परिधानं न चलाचलं भवति, कन्यानां चैष मस्तकप्रदेशेन प्रक्षिप्यते, तदाकारोऽवधिरनुत्तरसूराणां / एष च नारकादीनामनुत्तरसुरपर्यन्तानामेतदाकारः सर्वकालनियतः प्रत्येतव्यः। तिर्यग्मनुष्येष्ववधिर्नानाविधसस्थानसंस्थितः, संस्थानशब्दलोपोत्र द्रष्टव्यः, स्वयम्भूरमणजलनिधिवासिमत्स्यगणवत्, अपितु तत्रापि मत्स्यानां वलयाकारं संस्थानं निषिद्धं, तिर्यग्मनुष्यावधिस्तु तदाकारोऽपि भवति / भणितस्तीर्थकृदादिभिः, अनेन च // 76 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy