________________ शेषदेवा आवश्यकनिर्युक्तेरव चूर्णिः वधिः गा. 52 // 75 // उत्कृष्टोअतिपाती गा.५३-५४ ___ खलुए(रे)वार्थः स चावधारणेऽस्य चोभयथा सम्बन्धः, यथा अर्द्धसागरोपमे न्यूने एव चायुषि सति यथोक्तं क्षेत्रं / ततः | पूर्व (परं) सम्पूर्णार्द्धसागरादावायुषि त्वऽसङ्ख्येयानि योजनान्यवधिक्षेत्रमवसेयं, ऊर्द्धमधस्तिर्यक् च संस्थानविशेषाद्वक्ष्यमाणाभावनीयं / जघन्यकमवधिक्षेत्रं पञ्चविंशतिरेव योजनानि, तुरेवार्थः, देवानामिति वर्तते, एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामवसातव्यं, ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाजघन्यतोऽपि सङ्ख्येययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रान पश्यन्ति, उत्कर्षतोऽपि सङ्ख्येययोजनप्रमितानेव सङ्ख्येयान् द्वीपसमुद्रान् केवलमधिकतरान् // 52 // अथायमेवावधिर्येषा| मुत्कृष्टादिभेदमिन्नो भवति तान्प्रदर्शयन्नाह___ उक्कोसो मणुएसुं, मणुस्सतिरिएसु य जहण्णो य / उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई // 53 // इह द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टो अवधिर्मनुष्येष्वेव, न देवादिषु, तथा नरतिर्यक्क्ष्वेव जघन्योऽवधिर्न देवादिषु, च एवार्थः, तथा प्रतिपातिष्ववधिषु मध्ये उत्कृष्टोऽवधिः प्रतिपतितुं शीलमस्येति प्रतिपाती लोकमात्र एव, मात्रशब्दोऽलोकव्यवच्छेदार्थः, यद्यवधिः प्रतिपतति तत उत्कर्षतो लोकमात्र एव, न लोकात्परं प्रदेशमात्रमपि पश्यन् , ततो लोकात् परमेकमप्याकाशप्रदेशं पश्यन्नियमादप्रतिपाती // 53 // उक्तं क्षेत्रप्रमाणद्वारं 1, अधुना संस्थानद्वारव्याचिख्यासयाह थिवुयायार जहणो, वडो उकोसमायओ किंची। अजहण्णमणुकोसो य, खित्तओ णेगसंठाणो॥५४॥ स्तिबुकः-उदकबिन्दुस्तस्येवाऽऽकारो यस्यासौ स्तिबुकाकारो जघन्यावधिः, तमेव स्पष्टयति-वृत्तः, सर्वतो वृत्तः, पनकक्षेत्रत्य वर्तुलत्वात् , तथोत्कृष्टः-परमावधिः, आयतः-प्रदीर्घः, किश्चित्-मनाक्, वह्निजीवसूच्या अवधिमच्छरीरस्य सर्वतो // 75 //