SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वैमानिका वधिः गा.५०-५१ चूर्णिः मावश्यक-15 पश्यन्ति, स्वरूपकथनमेवेदं, विमलतरां बहुतरां च // 49 // नियुक्तेरव छढि हिटिममज्झिमगेविजा सत्तमि च उवरिल्ला / संभिण्णलोगनालिं, पासंति अणुत्तरा देवा // 50 // अधस्त्यमध्यमग्रैवेयकविमानवासिनो देवाः पष्ठी भुवं पश्यन्ति, सप्तमी च पृथिवीमुपरितननवेयकनिवासिनः, // 74 // सम्भिन्नां-किश्चिदूनां चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां लोकनाडी चतुर्दशरजुप्रमाणां कन्याचोलकसंस्थानामनुत्तरविमान वासिनो देवा पश्यन्ति / एवं क्षेत्रतो देवानां भवप्रत्ययावधेविषय उक्तः / एतदनुसारेण द्रव्यादिविषयोऽप्यवसेयः॥५०॥ एवमधो वैमानिकावधिक्षेत्रप्रमाणमभिधायेदानी तिर्यगूद्रं च तदेव प्रदर्शयन्नाह एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव / बहुअअरं उवरिमगा, ऊहूं सगकप्पथूभाई // 51 // एतेषां सौधर्मादिदेवानां असङ्ख्येयास्तिर्यक द्वीपाश्च सागराश्चावधिपरिच्छेद्यतया अवसेया इति वाक्यशेषः। तदेव द्वीपसमुद्राऽसहयेयकं बहुतरकं-प्रभूतप्रभूततरं पश्यन्ति उपर्युपरिदेवलोकनिवासिनो देवाः, उर्द्ध च स्वकल्पस्तुपाद्येव यावत् , आदिशब्दाद् ध्वजादिपरिग्रहः, जघन्यतः पुनरमी सर्वे देवा सौधर्मादयोऽनुत्तरविमानवासिपर्यन्ता अङ्गुलाऽसङ्ख्येयभागमात्रं क्षेत्रं पश्यन्ति / नन्वङ्गुलाऽसङ्ख्येयभागमात्रजघन्यो अवधिस्तिर्यग्मनुष्येष्वेव शेषाणां मध्यम एवेति वक्ष्यते, तत्कथं वैमानिकानां सर्वजघन्य उक्तः?, उच्यते, सौधर्मादिदेवानां परभविकोऽप्युपपातकालेऽवधिः सम्भवति, उपपातानन्तरं तु देवभवप्रत्ययजस्ततो न कश्चिद्दोषः॥५१॥ सम्प्रति सामान्यतो वैमानिकवर्जदैवानामवधिक्षेत्रमाह संखेजजोयणा खलु, देवाणं अद्धसागरे ऊणे / तेण परमसंखेजा, जहण्णयं पंचवीसं तु // 52 // EXEXXXXXXXXXXXXXXXXXX OTH74 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy