________________ आवश्यकनिर्युक्तेरव चूर्णिः // 72 // तिर्यक नारकावधिः गा.४६ एवाग्निजीवाः, इदमुक्तं भवति-उत्कृष्टावधेर्विषयत्वेन क्षेत्रतो येऽसङ्ख्येया लोकाः प्रोक्ताः, ते प्रागभिहितस्वावगाहनाव्यवस्थापितोत्कृष्टासङ्ख्यसूक्ष्मबादराग्निजीवसूच्या परमावधिमतो, जीवस्य सर्वतो भ्राम्यमाणया यत्प्रमाणं क्षेत्र व्याप्यते तत्प्रमाणा विज्ञेयाः। परमावधिकलितश्च नियमादन्तर्मुहूर्त्तमात्रेण केवलालोकलक्ष्मी समासादयति / तदेवं मनुष्यानधिकृत्य क्षायोपशमिको अनेकप्रकारोऽवधिरुक्तः सम्प्रति तिरश्चोऽधिकृत्य तं प्रतिपिपादयिषुराह आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु / गाउय जहण्णमोही, नरएसु उ जोयणुकोसो॥ 46 // आहारश्च तैजसश्च आहारतेजसी तयोलाभः प्राप्तिः परिच्छित्तिरित्यनन्तरं, सूत्रे च लाभस्य लम्भ इति निर्देशः प्राकृतत्वात् , आहारतेजोग्रहणमुपलक्षणं तेन यान्यौदारिकवैक्रियाहारकतैजसद्रव्याणि यानि च तदन्तरालेषु तदयोग्यानि तेषां सर्वेषामपि परिग्रहः, योनियोनिमतोरभेदोपचारादुत्कर्षतस्तैर्यग्योनिकसत्त्वविषयोऽवधिः स औदारिकवैक्रियाहारकतेजोद्रव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यति, एतद् द्रव्यानुसारेण क्षेत्रकालभावा अपि परिच्छेद्यतया स्वयमभ्यूह्याः। अथ भवप्रत्ययोऽवधिः प्रोच्यते, स च सुरनारकाणामेव स्याद् अल्पत्वात्वादौ नारकाणाम् / इह नरका आश्रयाः आश्रयाऽऽश्रयिणोरभेदोपचारात्, नरकेषु पुनः उत्कृष्टेष्वेव मध्ये जघन्योऽवधिः क्षेत्रतो गव्यूतं पश्यति, स च सप्तमपृथव्यां, उत्कृष्टस्तु योजनं पश्यति, स चाद्यपृथ्व्यां / इत्थम्भूतक्षेत्रानुसारेण द्रव्यादयः स्वयं परिभावनीयाः॥ 46 // तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रम् , अथ तदेव रत्नप्रभादिपृथ्वीविभागेनाह चत्तारि गाउयाई, अझुट्ठाई तिगाउया चेव / अड्डाइज्जा दुण्णि य, दिवड्डमेगं च निरएसु // 47 // H // 72 //