________________ आवश्यकनियुक्तेरव चूर्णिः // 71 // / बादरं पश्यति त पलभते, अन्यद्वा आता एवं विज्ञान विषय वा सङ्ख्यातीतप्रदेशावगाहित्वेनाऽस्यैकप्रदेशावगाहित्वानुपपत्तेः, तथा लभते च अगुरुलघु चाद् [गुरु ] लघु च जात्यपेक्षया सर्वत्रैक- उत्कृष्टावधेवचनं, ततश्च सर्वाण्यप्येकप्रदेशावगाढानि कार्मणशरीराणि अगुरु लघूनि गुरु] लघूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यं, विषयः तथा तैजसाङ्गविषयेऽवधौ कालतो भवपृथक्त्वं पश्यति, य एव प्राक् तैजसं पश्यतोऽसङ्ख्येयः काल उक्तः स एव भवपृथक्त्वेनगा . 45 विशेष्यते, देवगत्यादिगमनादत्राप्यऽसङ्ख्येयो ज्ञेयः, एतदयुक्तं यः सूक्ष्मं परमाण्वादि पश्यति तेन बादरं कार्मणशरीरादिकमवश्यं द्रष्टव्यं, यो बादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोऽपि नियमः, यतः-'तेआभासादव्वाणं इत्यादिवचनात् | प्रथमोत्पत्तावगुरुलघुद्रव्यं पश्यन्नवधिर्न गुरुलघूपलभते, अन्यद्वा अतिस्थूरमपि घटादिकं न लभते, तथा मनःपर्यायःज्ञानी | मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिन्तनीयं तु घटादिकं स्थूलमपि न पश्यति, तत एवं विज्ञान विषय वैचित्र्यसम्भवे सति | संशयव्यवच्छेदार्थ एकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषणोपादानमदुष्टमेव / तदेवं परमावधेद्रव्यरूपो विषय उक्तः, अधुना क्षेत्रकालौ तद्विषयतया प्रतिपिपादयिषुराह परमोहि असंखिजा, लोगमित्ता समा असंखिज्जा / रूवगयं लहइ सव्वं, खित्तोवमिअं अगणिजीवा // 4 // परमावधिः क्षेत्रतो असङ्ख्येयानि लोकमात्राणि, खण्डानि इति गम्यते, लभते, कालतस्तु समा-उत्सर्पिण्यवसर्पिणीरसङ्ख्येया एव लभते, तथा द्रव्यतो रूपगतं-मूर्त्तद्रव्यजातं 'लभते' पश्यति सर्व, भावतस्तु प्रतिद्रव्यं सङ्ख्येयानऽसङ्ख्येयान् वा // 71 // पर्यायानिति / यदुक्तमसङ्ख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसङ्ख्येयकमूनमधिकं च कोऽपि सङ्कल्पयेदतो नियमतः परिमाणप्रतिपादनार्थमाह-उपमीयते अनेनेत्युपमितं, क्षेत्रस्योपमितं क्षेत्रोपमितं क्षेत्रप्रमाणकारिणः प्रागभिहिता ************** *