________________ आवश्यकनिर्युक्तेरव मनो | द्रव्यादौ चूर्णिः क्षेत्रकालो उत्कृष्टावधे // 7 // विषयः गा.४४ द्रव्याणां, ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोकपल्योपमभागाः सङ्ख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरद्रव्यदर्शिनः किमतिस्तोकावेव क्षेत्रकालौ विषयत्वेनाभिहिताविति, उच्यते-पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतया अबद्धान्युक्तानि, अत्र शरीरतया बद्धानि, बद्धानि चाऽबद्धेभ्यो बादराणि भवन्ति, अव्यूततन्तुभ्यो व्यूततन्तुषु तथादर्शनात् , ततः कार्मणशरीरदर्शिनः स्तोको क्षेत्रकालावुक्ताविति, अपरस्त्वाह-[ननु यदि] तैजसद्रव्याणि पश्यतोऽसङ्ख्येया द्वीपसमुद्राः कालश्चासङ्ग्येयो विषयः, तर्हि यत्प्रागुतं-तैजसभाषापान्तरालद्रव्यदर्शिनोऽङ्गुलावलिकासङ्ख्येयभागादि क्षेत्रकाल-| प्रमाणं तद्विरुध्यते, नैष दोषः, इह विचित्रा वस्तुशक्तयः, ततो अपान्तरालद्रव्याणि प्रारम्भकस्यावधेविषयः, तैजसानि त्वसङ्ख्येयद्वीपसमुद्रासङ्ख्येयकालविषयस्येति न कश्चिद्दोषः, यदिवा अल्प्यद्रव्याण्यधिकृत्याङ्गुलावलिकासङ्ख्येयभागादिक्षेत्रप्रमाणमुक्तं, इदं तु प्रचुरतैजसद्रव्याण्यधिकृत्येत्यविरोधः॥४३॥ ननु जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु च पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गलावलिकासङ्ख्येयभागाद्यभिधानान्न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात् , तत उत्कृष्टावधेरपि किमसर्व सर्व वा द्रव्यमालम्बनमिति संशयः, तदपनोदार्थमाह एगपएसोगाढं, परमोही लहइ कम्मगसरीरं / लहइ य अगुरुयलघुअं तेयसरीरे भवपुहुत्तं // 44 // प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्च तस्मिन्नवगाढं-व्यवस्थितं एकप्रदेशावगाढं-परमाणुव्यणुकादिद्रव्यं परमावधिरुत्कृष्टावधिर्लभते पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते / ननु परमाणुव्यणुकादिद्रव्यमनुक्तं कथं गम्यते, तदालम्बनत्वेनेति, ततश्चोपात्तमेव कार्मणमिदं भविष्यति, तन्न, जीवप्रदेशानुसारितया S // 70 //