SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः // 69 // तेआकम्मसरीरे, तेआदब्वे अ भासदव्वे अ / बोद्धव्वमसंखिज्जा, दीवसमुद्दा य कालो अ॥४३॥ मनोवर्गणागतं मनःपरिणामयोग्यं मनोद्रव्यं तस्मिन्-मनोद्रव्यविषयेऽवधौ सङ्ख्येयतमो भागो लोकपल्योपमयो- ki द्रव्यादौ विषयत्वेन बोद्धव्यः, सूत्रे चैकत्वं समाहारद्वन्दविवक्षणात् , किमुक्तं भवति ?-मनोवर्गणागतं द्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य क्षेत्रकालौ सङ्ख्याततमं भागं कालतस्तु पल्योपमस्य सङ्ख्याततमं भागं पश्यति, तथा कर्मवर्गणागतं कर्मपरिणामयोग्यं कर्मद्रव्यं तद्विषये- गा.४२-४३ ऽवधौ सङ्ख्येया लोकपल्योपमयोर्भागा विषयत्वेन विज्ञेयाः, इदमुक्तं भवति कर्मवर्गणाद्रव्यं पश्यन्नवधिः लोकपल्योपमयोः पृथक पृथक् सङ्ख्येयान् भागान् पश्यति / तथा लोके-चतुर्दशरज्वात्मकलोकविषये कालतः स्तोकोनं पल्योपमं विषयतया ज्ञेयं, इदमत्र हृदयं-क्षेत्रतः समस्तलोकं पश्यन्कालतः स्तोकोनं पल्योपमं पश्यतीति, ननु द्रव्येण सह क्षेत्रकालयोरुपनिबन्धे प्रस्तुते केवल योरुप] निबन्धप्ररूपणमसमीचीनं, नैष दोषः, द्रव्योपनिबन्धस्यात्रापि सामर्थ्यप्रापितत्वात् , तथाहि-पूर्व 'काले चउण्ह बुट्ठी' इत्युक्तं, कालवृद्धिश्चात्रानन्तरोक्तकर्मद्रव्यदर्शकापेक्षया प्रतिपादिता, ततोऽस्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात्कर्मद्रव्योपरि यत्किमपि ध्रुववर्गणादि तद्विषयत्वेन द्रष्टव्यं, अत एव तदुपर्युपरि द्रव्याणि पश्यतः क्षेत्रकालवृद्धिक्रमण परमावधिसम्भवोऽप्यनुमेयः॥४२॥ शरीरशब्दः प्रत्येकं योज्यः, तैजसशरीरे कार्मणशरीरे च-एतद्विषये अवधौ, तथा तैजसवर्गणाद्रव्यविषये भाषावर्गणाद्रव्यविषये चावधौ क्षेत्रतः प्रत्येकमसङ्ख्येया द्वीपसमुद्राः कालश्चासङ्ख्येयः-पल्योपमासङ्ख्येयभागरूपो विषयत्वेनावसातव्यः, इह यद्यप्यविशेषेणोक्तं तथापि तैजसशरीरात्कार्मणशरीरस्य सूक्ष्मत्वात्तद्दर्शिन इदमेव द्वीपसमुद्रकालासङ्ख्येयत्वं बृहद्रष्टव्यं, कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वाद्बहत्तरं, तेभ्योऽपि भाषा
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy