________________ आवश्यकनिर्युक्तेरव चूर्णिः // 68 // गुरुलघु द्रव्यविभाग: गा. 41 रिकादीनि पश्यति // 40 // तत्र किं गुरुलघु किं वा अगुरुलघु इति शङ्कायां तत्स्वरूपप्रतिपादनार्थमाह ओरालिअवेउब्विअआहारमतेअ गुरुलहू दव्वा / कम्मगमणभासाई, एमाइ अगुरुलहुआई // 41 // औदारिकवैक्रियाहारकतैजसद्रव्याणि अपराण्यपि तैजसद्रव्यप्रत्यासन्नानि तदाभासानि बादररूपत्वाद् 'गुरुलघुनि' गुरुलघुस्वभावानि, कार्मणमनोभाषाद्रव्याणि तु आदिशब्दात्प्राणापानद्रव्याणि भाषाद्रव्याग्वतीनि भाषाभासानि अपराण्यपि च परमाणुकादीनि व्योमादीनि च एतानि 'अगुरुलघुनि' अगुरुलघुस्वभावानि / अथ भावार्थ उच्यते-इह व्यवहारश्चतुर्की द्रव्यमिच्छति तद्यथा-अधोगमनस्वभावं गुरुकं लेष्ट्वादिवत्, ऊर्द्धगतिस्वभावं लघुकं प्रदीपशिखावत् , तिरश्चीनशीलं गुरुलघु वाय्वादिवत् , निश्चलस्वभावं त्वगुरुलघु व्योमादिवत्, उक्तं च-गुरुअं 1 लहुअं 2 उभयं 3 नोभय 4 मिति वावहारिअनयस्स / दव्वं लेहं 1 दीवो 2 वाऊ 3 वोमं 4 जहासंखं 1 // (वि. 659) निश्चयस्तु मन्यते-नायमेकान्तो अधोगमनस्वभावं गुर्वेव भवतीति लघुनाप्यधोगतिपरिणतेनाणुना व्यभिचारात्, नाप्यूर्द्धगतिस्वभावं लघ्वेव एरण्डादिफलानां मुक्तानां चोर्द्धगत्या व्यभिचारात्, तस्मादिह निश्चयनयमाश्रित्यौदारिकादीनि तैजसान्तानि बादरपरिणामत्वाद्गुरुलघुत्वेनोकानि / कार्मणद्रव्यादीनि तु सूक्ष्मपरिणामत्वादगुरुलघुत्वेनेति // 41 // वक्ष्यमाणगाथाद्वयसम्बन्धः एवं-पूर्व किल क्षेत्रकालयोरवधिसम्बन्धिनोः केवलयोरगुलावलिकासक्वेयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, सम्प्रति तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्ध उपदर्यते संखिज्ज मणोदवे, भागो लोगपलियस्स बोद्धव्यो / संखिन्ज कम्मदब्वे, लोए थोवूणगं पलियं // 42 // *IR // 68 //