SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव उत्कृष्टाचित्तस्कन्धयोनात्वम् चूर्णिः // 67 // माणमिश्रस्कन्धाचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः / तदनन्तरं मिश्रस्कन्धो भवति, सूक्ष्म एव सन् ईषद्वादरपरिणामाभिमुखः सूक्ष्मत्वबादरत्वपरिणाममिश्रणान्मिश्रः स्कन्धः / तथेत्यानन्तर्ये अचित्त इति 'पदैकदेशे पदसमुदायोपचारात्' अचित्तमहास्कन्धः, स च विश्रसापरिणामविचित्र्यात् केवलिसमुद्घातगत्या चतुर्भिः समयैः सकललोकमापूरयति, संहरणमपि चतुर्भिरेव, [ आह-] अचित्तत्वाव्यभिचारादचित्तविशेषणमनर्थकमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोकव्यापिमहास्कन्धव्यवच्छेदपरतया विशेषणस्य सार्थकत्वात् , एष एवाचित्तमहास्कन्धः सर्वोत्कृष्ट प्रदेशस्कन्ध इति केचिद्व्याचक्षते तदसम्यकू, यतः प्रज्ञापनायां अवगाहनास्थितिभ्यामसलेयभागहीनादिभेदाच्चतुःस्थानपतिता उक्ताः उत्कृष्टपुद्गल(प्रदेश )निवृत्ताः स्कन्धाः / अमी पुनरचित्तमहास्कन्धाः कालभेदेन बहवोऽपि जायमाना अवगाहनास्थितिभ्यां तुल्या एव यतस्तेषां स्थितिरष्टसामयिकी अवगाहना च लोकव्यापिलक्षणा, किञ्च प्रज्ञापना| यामुत्कृष्टप्रादेशिकः स्कन्धो अष्टस्पर्शः उच्यते, अचित्तमहास्कन्धस्तु सूक्ष्मपरिणामत्वाच्चतुःस्पर्श एव, तस्मात्प्रज्ञापनोक्तस्थित्यादिवैषम्यभावा अष्टस्पर्शाश्चान्येऽप्युत्कृष्टप्रदेशिकाः स्कन्धाः सन्तीति नियमतः प्रतिपत्तव्यं / इह प्राक् तैजसभाषाद्रव्याणामपान्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यमुक्तं, जघन्यावधिश्च द्विधा-गुरुलघुद्रव्यारब्धोऽगुरुलघुद्रव्यारब्धश्च, तत्र गुरुलघुद्रव्यारब्धः कोऽपि तान्येव तैजसप्रत्यासन्नानि गुरुलघुद्रव्याणि दृष्ट्वा विध्वंसमापद्यते, यस्तु विशुद्धि- मासादयन् प्रवर्द्धते सोऽधस्तनानि तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा ततोऽधिकतरां विशुद्धिमासादयन् क्रमेणैवागुरुलघूनि भाषादिद्रव्याणि पश्यति, अगुरुलघुद्रव्यसमारब्धोऽपि कश्चिदूर्द्ध हि वर्धमान इतराण्यपि तत्कालं गुरुलघून्यौदा // 67 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy