SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः शून्यान्त रादिवर्गणाः GUU एता अध्रुवा-अशास्वत्यः कदाचिन्न सन्तीत्यर्थः / तथा सुन्ना' इति 'सूचनात्सूत्रं' [इतिन्यायात् शून्यान्तरवर्गणाः परिगृह्यन्ते ] एकोत्तरवृद्ध्या कदाचिच्छून्यानि-व्यवहितान्यन्तराणि यासां ताः शून्यान्तराः, ताश्च ता वर्गणाश्च शून्यान्तरवर्गणाः। एता एकोत्तरवृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेतास्वेकोत्तरवृद्धिरन्तरान्तरा त्रुव्यति, / एताः शून्यान्तरवर्गणा अप्यनन्ताः, इतरग्रहणादशून्यान्तरवर्गणाः, एताः एकोत्तरवृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिहानिरपान्तराले, तत एता अशून्यान्तराः प्रदेशोत्तरवृद्ध्या अनन्ताः, अशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, ध्रुवाणि च सर्वकालभावित्वादनन्तराणि च निरन्तरैकोत्तरवृद्धिभाक्त्वात् ध्रुवानन्तराणि, किमुक्तं भवति ?-आद्या ध्रुवानन्तरवर्गणाः प्रथमतोऽनन्ता भवन्ति, तदनतरमेतावत्यो द्वितीयाः, ततस्तृतीयाः ततश्चतुर्थ्या वाच्याः, ध्रुववर्गणाः प्रागप्युक्ताः परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद्बहुद्रव्योपचितत्वाच्च, एतासां चतसृणामपि ध्रुववर्गणानां प्रत्येकमपान्तराले एकोत्तरवृद्धिहानिरवसातव्या, अन्यथा निरन्तरमेकोत्तरवृद्धिसम्भवे चातुर्विध्यासम्भवात् / अन्यद्वा किश्चिद्वर्णादिवैचित्र्यं कारणं, तद्बहुश्रुता एव विदन्ति / एवं तनुवर्गणानामपि भावनीयं, चतसृणां ध्रुववर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्रस्तनुवर्गणाश्च भवन्ति, तनूनाम्-औदारिकादिशरीराणां भेदाभेदपरिणामाभ्यां योग्यत्वाभिमुखा वर्गणास्तनुवर्गणाः, भेदाभेदपरिणामाभ्यामिति कोऽर्थः यावद्भिः किल पुद्गलै| स्तनुवर्गणास्कन्धा निष्पद्यन्ते तेभ्यो यदि केचित्पुद्गला विभिद्य पृथग्भवन्ति अन्ये त्वागन्तुकाः समानगत्या भेदेन परिणमन्तीत्याभ्यां भेदाभेदपरिणामाभ्यामेतास्तनुवर्गणा औदारिकादियोग्यबादरपरिणामाभिमुखा भवन्तीत्यर्थः / अथवा वक्ष्य
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy