________________ आवश्यकनिर्युक्तेरव धुवाद्या वगेणा: चूर्णिः // 65 的事,中车南市南大夫的素 प्रदेशवृद्ध्या वर्द्धमानाः खल्वसङ्ख्येया वर्गणा विलय कर्मणः प्रायोग्या असङ्ख्येया वर्गणा भवन्ति, ततो अनन्तरमल्पपरमाणुनिष्पन्नत्वाद्वादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणप्रायोग्या एकैकाशप्रदेशवृद्ध्या असङ्ख्येया वर्गणाः 1, एवमेकैकाकाशप्रदेशवृद्ध्या वर्द्धमानो मनसोऽप्यसङ्खयेया अग्रहणवर्गणाः, पुनरेतावत्य एव तस्य ग्रहणवर्गणाः, पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणप्रायोग्या वर्गणाः 2, एवमानप्राणयोः 3 भाषायाः 4 तैजसस्य 5 आहारकस्य 6 वैक्रियस्य 7 औदारिकस्य 8 चायोग्ययोग्यायोग्यवर्गणानां प्रतिलोमं क्षेत्रतोऽपि प्रत्येकं त्रयं त्रयं आयोज्यं, “परं परं सूक्ष्म / प्रदेशतोऽसङ्ख्येयगुण"मिति (तत्त्वार्थ. 2 अ. सू. 38-39) वचनात् // अनन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, सम्प्रति प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदर्श्यन्ते-क्रियते मिथ्यात्वादिसचिवै वैनिर्वर्त्यते इति कर्म कर्मण उपरि कर्मोपरि, 'नाम नाम्नैकार्ये [ समासो बहुल'मिति ] समासः, कांग्रहणप्रायोग्यवर्गणानामुपरीति भावः, 'धुर्वेति ध्रुववर्गणा अनन्ताः, तद्यथाकांग्रहणप्रायोग्यवर्गणानामुपरि एकाधिकपरमाणूपचितातिसूक्ष्मपरिणामानन्तपरमाण्वात्मिका प्रथमा ध्रुववर्गणा भवति, एकोत्तरवृद्ध्या वर्द्धमाना एता अपि ध्रुववर्गणा अनन्ता वेदितव्याः, ध्रुवा इति नित्याः लोकव्यापितया सर्वकालावस्थायिन्य इति भावः / अन्तर्दीपकं चेदं, एतासां ध्रुवत्वभणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यं, तासामपि सर्वत्र लोके सदा अव्यवच्छेदात्, अन्यच्च-एता ध्रुववर्गणा वक्ष्यमाणाश्चानुवाद्याः सर्वा अपि ग्रहणाप्रायोग्यवर्गणा अतिबहुद्रव्योपचितत्वेनाऽतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेनाग्रहणात् , तदनन्तरमित्वमैवैकोत्तरवृद्ध्या वर्धमाना ध्रुववर्गणाभ्य इतरा अक्वर्गणा अनन्ता भवन्ति, एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात्कदाचिल्लोके न भवन्त्यपि, तत