________________ आवश्यकनियुक्तेरव चूर्णिः // 64 // औदारिकाद्या वर्गणाः R* ** प्रचुरद्रव्यनिष्पन्नत्वात्सूक्ष्मपरिणामत्वाच्चौदारिकस्याप्यग्रहणप्रायोग्याः, परं वैक्रियवर्गणाप्रत्यसन्नतया तदाभासत्वाद्वैक्रियशरीराग्रहणप्रायोग्या इति व्यपदिष्टाः, तदनन्तरमेकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत ऊर्द्धमेकोत्तरवृद्ध्या प्रवर्द्धमानाः प्रचुरद्रव्यारब्धत्वात्सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याऽग्रहणप्रायोग्याः अनन्ताः वर्गणाः, तासां चोपर्येकोत्तरवृद्ध्या प्रवर्द्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद्वादरपरिणामत्वा-1 च्चाहारकशरीरस्याग्रहणप्रायोग्या अनन्ता वर्गणाः / तदनन्तरमेकोत्तरवृद्ध्या वर्द्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधसूक्ष्मपरिणामपरिणतत्वाच्चाहार कशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणाः, ततोऽप्येकोत्तरवृद्ध्या वर्द्धमाना बहुतिमद्रव्यनिष्पन्नत्वादतिसूक्ष्मपरिणामत्वाच्चाहारकशरीरस्याग्रहणप्रायोग्या अनन्ता वर्गणाः / एवं तेजसस्य 4 भाषायाः 5 आनप्राणयोः 6 मनसः 7 कर्मण 8 श्च यथो त्तरमेकोत्तरवृद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां पुनर्योग्यानां पुनरयोग्यानां वर्गणानां पृथक् त्रयं त्रयं वक्तव्यं // कथं पुनरेकैकस्यौदारिकादेः त्रयं त्रयं] गम्यते ? उच्यते, तैजसभाषाद्रव्यापान्तरालवय॒भयायोग्यद्रव्यावधिगोचराभिधानात् / अथायं द्रव्यवर्गणानां क्रमः-परिपाटी, इह स्वजातीयवस्तुसमुदायो वर्गणा वर्गः समूहो राशिरिति पर्यायाः / तथा 'विपर्यासतो' विपर्यासेन 'क्षेत्रे' क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, तद्यथा-परमाणूनां व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां चैकैकाशप्रदेशावगाहिनां सर्वेषामेका वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां द्विप्रदेशा T वगाहिनां द्वितीया वर्गणा, त्र्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां त्रिप्रदेशावगाहिनां तृतीया वर्गणा, एवमेकैकाकाशप्रदेशवृद्ध्या सङ्ख्येयप्रदेशावगाहिनां स्कन्धानां सङ्ग्येया वर्गणाः, असङ्ख्येयप्रदेशावगाहिनां स्कन्धानामसङ्ख्येयाः, ताश्चैकैकाकाश * * * // 64 // * **