________________ आवश्यकनियुक्तेरव-| चूर्णिः औदारिकाद्या वर्गणाः तत्र द्रव्यत एकपरमाण्वा दीनां यावदनन्तपरमाणूनां क्षेत्रत एकप्रदेशावगाढानां यावदसङ्ख्यप्रदेशानां कालत एकसमयस्थितीनां सर्वेषां परमाणूनां स्कन्धानां चैका वर्गणा द्विसमयस्थितीनां सर्वेषां द्वितीया वर्गणा त्रिसमयस्थितीनां तृतीया एवमेकैकसमयवृझ्या सङ्ख्येयसमयस्थितीनां परमाण्वादीनां सङ्ख्येया वर्गणा असङ्ख्येयसमयस्थितीनामसङ्ख्येयवर्गणाः, भावत एकगुणकृष्णवर्णानां परमाणूनां स्कन्धानां च सर्वेषां एका वर्गणा द्विगुणकृष्णानां द्वितीया एवमेकैकगुणवृद्ध्या सङ्ख्येयाः अङ्ख्येयगुणकृष्णवर्णानामसङ्ख्येया अनन्तगुणकृष्णानामनन्ता वर्गणाः, एवं नीललोहितहारिद्रशुक्लवर्णेषु सुरभीतरयोर्गन्धयोः तिक्तकटुकषायाम्लमधुरेषु रसेषु कर्कशमृदुगुरुलघुशीतोष्णस्निग्धरूक्षेषु स्पर्शेष्वष्टसु सर्वसङ्ख्यया 20 स्थानेषु प्रत्येकमेकादिसङ्ख्येयगुणानां सङ्ख्येयाः असङ्ख्येयगुणानां असङ्ख्येयाः अनन्तगुणानामनन्ता वर्गणा वाच्याः, तथा लघुगुरुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एते द्वे भवतः। प्रकृतोपयोगः प्रद यते, तत्र समस्तलोकाकाशप्रदेशवर्तिनामेकाकिपरमाणूनां समुदाय एका वर्गणा, समस्तलोकवर्तिनां द्विप्रदेशिकस्कन्धानां द्वितीया, एवं त्रिप्रदेशिकानां तृतीया, एवमेकोत्तरया वृद्ध्या तावन्नेयं यावत्सङ्ख्येयप्रदेशिकस्कन्धानां सङ्ख्येयाः, असक्येयप्रदेशिकानामसङ्खयेयाः, अनन्तप्रदेशिकस्कन्धानामनन्ताः खल्वग्रहणयोग्या वर्गणा विलय विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणप्रायोग्या वर्गणा अनन्ता एव भवन्ति, तत एकोत्तरप्रदेशवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात्सूक्ष्मतरपरिणामत्वाच्चौदारिकस्याग्रहणप्रायोग्या अनन्ता वर्गणाः, ताश्च स्वल्पपरमाणुनिष्पन्नत्वाद्वादरपरिणामयुक्तत्वाच्च वैक्रियस्याप्यग्रहणप्रायोग्याः, पुनः प्रदेशवृद्ध्या [स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्च वैक्रियशरीरस्याग्रहणप्रायोग्याः] अनन्ता वर्गणाः, ताश्च // 63 //