SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जघन्यावधे आवश्यक नियुक्तेरव चूर्णिः // 62 // योग्यं द्रव्यं गा. 38 वर्गणाः गा.३९-४० का तत्र जघन्यावधिपरिच्छेदयोग्यं द्रव्यमभिधित्सुराह तेआभासादव्वाण, अंतरा इत्थ लहइ पट्टवओ। गुरुलहुअअगुरुलहुअं, तंपि अ तेणेव निट्ठाइ // 38 // | तैजसं च भाषा च, तयोर्द्रव्याणि तैजसभाषाद्रव्याणि, तेषां तैजसभाषाद्रव्याणामन्तरादित्यर्थवशाद्विभक्तिपरिणामः, अन्तरे, अथवा अंतरे इति पाठान्तरमेव, एतदुक्तं भवति तैजसभाषाद्रव्याणामपान्तराले, 'अत्र' एतस्मिन्नुभयायोग्ये द्रव्यसमूहे | तैजसभाषाभ्यामन्यदेव द्रव्यं 'लभते' पश्यति, कः? 'प्रस्थापकः' प्रस्थापको नाम तत्प्रथमतया अवधिप्रारम्भकः, किंविशिष्टं तदित्याह-'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, तत्र यत्तैजसद्रव्यासन्नं तद्गुरुलघुपर्यायो[पेतं ], यच्च भाषाद्रव्यासन्नं तदगुरुलधुपर्यायोपेतं, तदपि चावधिज्ञानं प्रच्यवमानं सत्पुनस्तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवत इति भावः। तदपि चे' त्यत्र अपिशब्दो यत्प्रतिपाति तत्रायं नियमो न पुनरवधिज्ञानं प्रतिपात्येव भवतीतिसन्दर्शनार्थः, च एवार्थः, अवधिरेवैवं प्रच्यवते न शेषज्ञानानीति // 39 // कियत्प्रदेशं तत् द्रव्यं यत्तजसभाषाद्रव्याणाम| पान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्का, तत्किल परमाण्वादिक्रमोपचयादौदारिकादिवर्गणानुक्रमतः प्रतिपादयितुं शक्यं, अतस्तत्स्वरूपं प्रतिपिपादयिषुर्गाथाद्वयमाह ओरालविउव्वाहारतेअभासाणपाणमणकम्मे / अह दव्ववग्गणाणं, कमो विवजासओ खित्ते // 39 // कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥४०॥ औदारिकग्रहणादौदारिकशरीरग्रहणप्रायोग्या वर्गणाः परिगृहीताः / इह वर्गणाः सामान्यतश्चतुर्धा द्रव्यादिभेदात् , // 62 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy