________________ आवश्यकनियुक्तेरव कालात् क्षेत्रस्य सूक्ष्मता गा. 37 चूर्णिः // 61 // सङ्ख्येयानां वा पर्यायाणां परिच्छेदसम्भवात् , पर्याये तु वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधि वृक्ष्य वृद्धिसम्भवात् / ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोरवधिसम्बन्धिनोः क्षेत्रकालयोरङ्गलावलिकासयेयभागादिरूपयोः परस्परं प्रदेश-| समयसमयया तुल्यत्वमुत हीनाधिकत्वं ?, उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असलयेये भागे जघन्यावधिविषये यावन्तः समयास्तदपेक्षयाङ्गुलस्याऽसमयेयभागे जघन्यावधिविषये एव ये नभःप्रदेशास्त असायेयगुणाः, एवं सर्वत्राप्यवधिविषयात् कालादसङ्ख्येयगुणत्वमवधिविषयस्य क्षेत्रस्यावगन्तव्यं // 36 // कालादसङ्खयेयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात् , तदेव सूत्रमुपदर्शयति सुहुमो य होई कालो, तत्तो सुहुमयरं हवइ खित्तं / अंगुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा // 37 // 'सूक्ष्मश्च' श्लक्ष्णश्च भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थः, यथा सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसवयेयाः समयाः प्रतिपाद्यन्ते, ततः सूक्ष्मः कालः, तस्मादपि कालात्सूक्ष्मतरं क्षेत्रं भवति, यस्मादडलश्रेणिमात्रे क्षेत्रे-प्रमाणाङ्गुलैकमात्रे श्रेणिरूपे नभःखण्डे प्रतिप्रदेशं समयगणनया [असङ्ख्येया] अवसर्पिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्तं भवति-प्रमाणाङ्गुलैकमात्रे एकैकप्रदेशश्रेणिरूपे नभःखण्डे यावन्तो असङ्ख्येयास्ववसर्पिणीषु समयास्तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः सर्वत्रापि कालादसङ्ख्येयगुणं क्षेत्रं, क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि चावधिविषयः पर्यायः सङ्ख्येयगुणो असञ्जयेयगुणो वा // 37 // उक्तमवधेर्जघन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणावधेय॑पदिश्यते, ततः क्षेत्रस्य द्रव्यावधिकत्वात्तदभिधानान्तरमवधिपरिच्छेदयोग्यं द्रव्यमभिधातव्यं, अवधिश्च त्रिधा-जघन्यादिभेदात् , // 61 // आव०चू०६