________________ अवधौ आवश्यकनिर्युक्तेरव कालादि चूर्णिः वृद्धिभजना गा. 36 // 6 // ************KKERKKKK विषयोऽपि भावनीयः, यदा पुनः स्वयम्भूरमणे द्वीपे समुद्रे वा कस्यचित्तिरश्चोऽवधिरसद्ध्येयकालविषयो जायते तदा तस्यैव द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा तदैकदेशो विषयः, क्षेत्रप्रमाणं पुनः सर्वत्रापि योजनाऽपेक्षया असङ्ख्येयमेव, तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च क्षेत्रवृद्धिस्तथा परिस्थूरन्यायमङ्गीकृत्य प्रतिपादितम् // 35 // सम्पति द्रव्यक्षेत्रकालभावानां मध्ये यद्वृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह काले चउण्ह बुड्डी, कालो भइयव्वु खित्तबुड्डीए / वुड्डीइ दब्वपज्जव, भइयब्वा खित्तकाला उ // 36 // ___ काले-अवधिगोचरे वर्द्धमाने चतुर्णा-द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति / ननु काले वर्द्धमानेऽवशिष्टत्रयाणामेव द्रव्यक्षेत्रभावानां वृद्धिर्भवतीत्येतावदेव वक्तुमुचितं, कथमुच्यते काले वर्द्धमाने चतुर्णा वृद्धिर्भवतीति, उच्यते, सामान्याभिधानाददोषः, प्रथम वर्धमानतया विशेषतः कालं निर्धार्य ततो वृद्धिसाम्याच्चतुर्णामपि सामान्येनाभिधानादिति भावः / अस्ति वायं न्यायः-एकस्मिन् रसनेन्द्रिये जिते पञ्चापि जितानीति / तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो भजनीयः, कदाचिद्धर्द्धते कदाचिन्न, क्षेत्रं ह्यत्यन्तसूक्ष्मं कालस्तु तदपेक्षया परिस्थरस्ततो यदि प्रभूता क्षेत्रवृद्धिस्तदा कालोऽपि वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो वर्द्धते, द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतत्वात् , भजनीयावेव क्षेत्रकालौ, तुरेवार्थे भिन्नक्रमश्च, तथैव योजितः, भजना चैवं-कदाचित्तयोवृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्म, एकस्मिन्नपि नभःप्रदेशे अनन्तस्कन्धावगाहनात् , द्रव्यादपि पर्यायः सूक्ष्मः, एकस्मिन्नपि द्रव्ये अनन्तपर्यायसम्भवात् , ततो द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भजनीयौ एव, द्रव्ये च वर्द्धमाने पर्याया नियमतो वर्द्धन्ते, प्रतिद्रव्यं सङ्ख्येयानाम K // 6 //