SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 59 // वधिः संवत्सरमतीतमनागतं पश्यतीत्यर्थः, रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयोऽवधिर्वर्षपृथक्त्वं च पश्यति // 34 // अवधेः क्षेत्रसङ्ख्येये काले इति सङ्ख्यातः कालः, स च संवत्सरादिलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? सङ्ख्येय- कालप्रतिकालो वर्षसहस्रात्परतो वेदितव्यः, तस्मिन् सङ्ख्येये काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्रास्तेऽपि बन्धः (समुद्राश्च ते) भवन्ति सङ्ख्येयाः, अपिशब्दान्महानेकोऽपि अतिमहत एकदेशोऽपि, किमुक्तं भवति ?-सङ्ख्येये काले अवधिना परिच्छिद्यमाने क्षेत्रमपि सङ्ख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, तत्राऽत्रत्यस्य नरादेर (नरस्या) वधिरुत्पद्यते तस्य जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्राः परिच्छेद्याः, अथ बाह्ये द्वीपे समुद्रे वा सङ्ख्येययोजनविस्तृते कस्यापि तिरश्चः सङ्खयेयकालविषयो अवधिरुत्पद्यते तदा यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसङ्ख्येययोजनविस्तृते स्वयम्भूरमणादिके द्वीपे समुद्रे वा सङ्खयेयकालविषयो अवधिः कस्याप्युपजायते तदानीं स प्रागुक्तपरिमाणं तस्य समुद्रस्य द्वीपस्य वैकदेशं पश्यति / यद्वा इहत्यतिर्यड्मनुष्यवाह्यावधिरेकद्वीपादिविषयो द्वीपायेकदेशविषयो वा वेदितव्यः / तथा कालेऽसङ्ख्येये-पल्योपमादिलक्षणे अवधेर्विषये सति तस्येवासङ्ख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्रास्तु भाज्याः-विकल्पयितव्याः, कस्यचिदसङ्ख्येयाः [कस्यचित्तु सङ्ख्येयाः] कस्यचिन्महानेकः कस्यचिदेकस्यैकदेशः / तत्रेह यदा मनुष्यस्याऽसङ्ख्येयकालविषयोऽभ्यन्तरावधिरुत्पद्यते तदानीमसङ्खयेयद्वीपसमुद्रास्तस्य विषयः, यदा पुनबहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरश्चोऽअसङ्ख्येयकालविषयोऽवधिरुपजायते तदा तस्य सङ्ख्येया द्वीपसमुद्राः, अथवा यस्य * मनुष्यस्यासङ्खयेयकालविषयो बाह्यद्वीपसमुद्राऽऽलम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्खयेया द्वीपसमुद्राः, एवमेकद्वीप
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy