SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः बन्धः // 58 // अङ्गुलमिह क्षेत्राधिकारात् प्रमाणाङ्गुलमभिगृह्यते, अन्ये त्वाहुः-अवध्यधिकारादुच्छ्रयाङ्गुलमिति, आवलिका असङ्ख्येय- अवधेः क्षेत्रसमयात्मिका, जघन्ययुक्ताऽसङ्ख्यातकप्रमाणसमयसमुदायात्मिकेति भावः, अङ्गुलं चावलिका च अङ्गुलावलिके तयोर्भाग-अंशम- कालप्रतिसङ्ख्येयं पश्यत्यवधिज्ञानी, किमुक्तं भवति-क्षेत्रतोऽङ्गलासङ्ख्येयभागमात्रं पश्यन् कालतश्चावलिकाया असङ्खयेयभागमतीतमना| गतं च पश्यति, आवलिकायाश्चासङ्ख्येयं भागं पश्यन् क्षेत्रतोऽङ्गुलाऽसङ्खचेयभागमेव पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न खलु क्षेत्रं कालं च साक्षादवधिज्ञानी पश्यति, तयोरमूर्तत्वाद् रूपिद्रव्यविषयश्चावधिः / एतावति क्षेत्रे काले च यानि द्रव्याणि तेषां च ये पर्यायास्तान् पश्यतीति भावः, एवं सर्वत्र ज्ञेयं, क्रिया च गाथाचतुष्टये स्वयमेव योजनीया, तथा द्वयोरङ्गुलावलिकयोः सङ्खयेयौ भागौ पश्यति, अङ्गुलस्य सङ्ख्येयभागमात्रं | पश्यन्नावलिकाया अपि सङ्ख्येयमेव भागं पश्यतीत्यर्थः / तथा अङ्गुलं-अङ्गुलमात्रं क्षेत्रं पश्यन्नावलिकान्तः-किंचिदूनां आवलिका, [आवलिकां] चेत्कालतः तदा क्षेत्रतोऽङ्गुलपृथक्त्वं-परिपूर्णाङ्गुलपृथक्त्वपरिमाणं क्षेत्रं पश्यति, पृथक्त्वं हि द्विप्रभृतिरान-2 वभ्यः॥ 32 // हस्ते इति हस्तविषयः, क्षेत्रतोऽवधिः कालतो भिन्नं मुहूर्त पश्यतीत्यर्थः, अवध्यवधिमतोरभेदोपचारात् अवधिः पश्यतीत्युच्यते, कालतो 'दिवसंतो' भिन्नदिवसं पश्यन् क्षेत्रतो 'गव्यूतं' गव्यूतविषयो बोद्धव्यः, योजन इति योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, कालतः 'पक्षान्तो' भिन्नं पक्षं पश्यन् क्षेत्रतः पञ्चविंशति योजनानि // 58 // // 33 // भरतक्षेत्रविषयेऽवधौ अर्द्धमास उक्तः, सकलभरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं पक्षं पश्यतीत्यर्थः, एवं* जम्बूद्वीपविषयेऽवधौ कालतः साधिको मासो विषयत्वेन बोद्धव्यः, वर्ष च मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषयोऽ
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy