SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः // 57 // अवधेः क्षेत्रकालप्रति बन्धः गा.३२-३५ बादराःप्रायोऽजितस्वामितीर्थकरकाले प्राप्यन्ते तदारम्भकमनुष्यबाहुल्यसम्भवात् / सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव वक्ष्यन्ते, ततश्च सर्वबहवोऽनलजीवा भवन्ति, तेषां च स्वबुद्ध्या पोढा अवस्थानं कल्प्यते-एकैकक्षेत्रप्रदेशे एकैकजीवाऽवगाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव हि घनो जीवैः स्वावगाहनाभिरिति द्वितीयं, एवं प्रतरोऽपि विभेदः, श्रेणिरपि द्विभेदा, तत्राद्याः पञ्च प्रकारा अनादेशाः, तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात्, षष्ठः प्रकारस्तु सूत्रादेशः। ततश्चासौ श्रेणिः स्वागाहनासंस्थापितसकलानलजीवावलिरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असङ्ख्येयान् लोकमात्रान् क्षेत्रविभागान् अलोके व्याप्नोति, एतावत् क्षेत्रमवधेरुत्कृष्टं, इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावताऽलोके तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात् / रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषोयावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव जानाति, यदा पुनरलोकेऽवधिः प्रसरमधिरोहति तदा यथा यथा वृद्धिमासादयति तथा तथा लोके [ सूक्ष्मान् ] सूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि // 32 // जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, अथ मध्यमावधिक्षेत्रं गाथाचतुष्टयेनाह अंगुलमावलियाणं, भागमसंखिज दोसु संखिज्जा / अंगुलमावलिअंतो, आवलिआ अंगुलपुहत्तं // 32 // हत्थंमि मुहुत्तंतो, दिवसंतो गाउअंमि बोद्धव्यो। जोयण दिवसपुहत्तं, पक्खंतो पण्णवीसाओ // 33 // भरहंमि अदमासो, जंबूदीवंमि साहिओ मासो। वासं च मणुअलोए, वासपुहुत्तं च रुयगंमि // 34 // संखिज्जंमि उ काले, दीवसमुद्दावि हुंति संखिज्जा / कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा // 35 // // 57 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy