________________ आवश्यकनिर्युक्तेरव चूर्णिः अवधेरूत्कृष्टक्षेत्रं गा.३१ चतुर्थादिषु चातिस्थूर इति त्रिसमयाहारकग्रहणं / अन्ये तु व्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाऽभावाच्चाहारक एवेत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, ततस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात् , | मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात् / त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रङ्गात् // 30 // अथोत्कृष्टमवधिक्षेत्रमधिधातुकाम आह सवबहुअगणिजीवा, निरंतरं जत्तियं भरिज्जासु / खित्तं सबदिसागं, परमोही खित्त निविट्ठो // 31 // यत ऊर्द्धमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते ते सर्वबहवः, तत्र तेऽग्निजीवाश्च-सूक्ष्मबादररूपाः सर्वबह्वग्निजीवाः, ते कदा स्युरिति चेत्, उच्यते, यथा सर्वासु कर्मभूमिषु निर्व्याघातमग्निकायसमारम्भकाः सर्वबहवो मनुष्याः, ते च प्रायो अजितस्वामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्तिनः सूक्ष्मानलजीवाः तदा सर्वबह्वग्निजीवपरिमाणं / 'निरन्तर'मिति क्रियाविशेषणं, यावत्परिमाणं क्षेत्रं 'भृतवन्तो' व्याप्तवन्तः किमुक्तं भवति ?-नैरन्तर्येण विशिष्टसूचीरचनया यावत् व्याप्तवन्तः, भूतकालनिर्देशश्चाजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा अस्यामवसर्पिण्यां स्युरिति ख्यापनार्थः, इदं चानन्तरोदितविशेषणमेकदिक्कमपि भवति अत आह-सर्वदिक्कं, अनेन सूचीपरिभ्रमणप्रमितत्त्वं क्षेत्रस्य सूचयति, परमश्चासाववधिश्च परमावधिः, सर्वबह्वग्निजीवा निरन्तरं यावत् क्षेत्रं सूचीभ्रमणेन सर्वदिक्कं भृतवन्तः एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तपरमावधिः क्षेत्रमधिकृत्य निर्दिष्टो गणधरादिभिः। अयमिह सम्प्रदायः-सर्वबह्वग्निजीवा // 56 //