________________ आवश्यकनियुक्तेरव अवधेघन्यक्षेत्रं चूर्णिः // 55 // यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः सा अवगाहना-तनुरित्यर्थः, जघन्या-शेषत्रिसमयाहारकसूक्ष्मपनकजीवापेक्षया सर्वस्तोका एतावत्परिमाणमेव अवधेर्जघन्यं क्षेत्रं, तुरेवार्थे, अत्रायं सम्प्रदायः यः किल योजनसहस्रपरिमाणायामो मत्स्यः खशरीरस्य बहिरेकदेशे एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धानामात्मप्रदेशानामायाम संहृत्याङ्गुलाऽसङ्ख्येयभागबाहल्यं वदेहविष्कम्भप्रमाणायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्याङ्गलासङ्ख्येयभागविष्कम्भां [मत्स्य| देहविष्कम्भ] प्रमाणायामां आत्मप्रदेशानां सूची विरचयति, तृतीयसमये तामपि संहृत्याङ्गुलाऽसङ्ख्येयभागमात्रे स्वशरीरस्य बहिःप्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीयसमये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेरालम्बनवस्तुभाजनक्षेत्रमवसातव्यं, एतदर्थप्रतिपादिकाश्च प्रसङ्गायाताः पूर्वाचार्यविनिर्मिता आर्या दृश्य(दर्य )न्ते-'योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः। उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स ग्राह्यः॥१॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् / सङ्ख्यातीताख्याङ्गुलविभागबाहल्यमानं तु // 2 // स्वकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् / तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् // 3 // सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् / निजतनुपृथुत्वदैर्घ्य तृतीयसमये तु संहृत्य // 4 // उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः / समयत्रयेण तस्यावगाहना यावती भवति // 5 // तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् / इदमित्थमेव मुनिगणसुसम्प्रदायात्समवसेयं // 6 // ननु | किमिति महामत्स्यः? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः त्रिसमयाहारकत्वं वा कल्प्यते ?,. उच्यते, स एव हि महामत्स्यस्त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्चातिसूक्ष्मः,