________________ आवश्यकनियुक्तेरवचूर्णिः अवधेनिक्षेपः अवधे धन्यक्षेत्रं च गा.३० // 54 // | गमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः, नोआगमतस्त्रिविधः ज्ञशरीरद्रव्यावधिः, भव्यशरीरद्रव्यावधिः, तद्व्यतिरिक्तद्रव्यावधिश्च, तत्राद्ये प्रतीते, तृतीयस्तु साक्षात्सूत्रेणैवोपात्तः 'दविए' इति द्रव्येऽवधिः द्रव्यावधिः द्रव्यालम्बन इत्यर्थः, अथवा सूत्रे प्रथमान्तस्याप्येकारान्तता, जिनवचनस्य सर्वस्याप्यर्द्धमागधभाषात्मकत्वात् , ततो द्रव्यमेवावधिव्यावधिः, कारणं द्रव्यमिति भावः, यद्वोत्पद्यमानस्यावधेर्यदुपकारकं शरीरादि तदवधिकारणत्वाद्रव्यावधिः 3, क्षेत्रेऽवधिः क्षेत्रावधिः, यत्र क्षेत्रेऽवस्थितस्यावधिरुत्पद्यते यत्र वा क्षेत्रेऽवधिः प्रज्ञापन प्रकाश्यते यत्र वा क्षेत्रे स्वयोग्यानि द्रव्याण्यवधिः परिच्छिनत्ति स क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदिश्यते इति क्षेत्रेऽवधिः क्षेत्रावधिरित्युच्यते, एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते यत्र वा प्रज्ञापकेन प्ररूप्यते यस्मिन् वा काले स्वयोग्यानि द्रव्याणि परिच्छिनत्ति स कालस्य प्राधान्यविवक्षया कालेन व्यपदिश्यते, कालेनावधिः कालावधिः / भवन्ति तत्कर्मवशवर्तिनः प्राणिनो अत्रेति भवः-नारकादिलक्षणः, य(तस्मिन्भवे उत्पद्यते वर्तते प्रेक्षते वा योऽवधिः स भवावधिः 6, भावः क्षायोपशमिको द्रव्यपर्यायो वा तस्मिन् अवधिः भावावधिः 7, चौ समुच्चायाौँ, एषोऽनन्तरव्यावर्णितस्वरूपः, खलुः एवार्थे, एष एव नान्यः, निक्षेपणं निक्षेपोऽवधेर्भवति सप्तविधः // 29 // गतमाद्यद्वारं, क्षेत्रप्रमाणं च त्रिधा-जघन्यमध्यमोत्कृष्टभेदात् , तत्र जघन्य क्षेत्रपरिमाणमभिधित्सुराह जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स / ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु // 30 // आहारयति-आहारं गृह्णातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमय, त्रिसमयमाहारकस्त्रिसमयाहारकः, 'व्याप्ता विति समासः, त्रिसमयाहारकस्य, 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयवर्तिनः, पनकजीवस्य (वः-) वनस्पतिविशेष (पः) तस्य, 'यावती' *************** // 54 // ******