________________ आवश्यकनिर्युक्तेरव चूर्णिः अवधेर्भेदाः गा. 26 | चतुर्दशविधनिक्षेपाः गा.२७-२८ // 52 // प्रकृतयः, आसां च मध्ये काश्चनान्यतमाः प्रकृतयो ‘भवप्रत्ययाः' कोऽर्थः?, भवो-नारकादिजन्म स पक्षिणां गगनगमनलब्धिरिव उत्पत्ती प्रत्ययः-कारणं यासां ताः, ताश्च नारकामराणामेव, काश्चन 'गुणप्रत्ययाः क्षयोपशमेन निवृत्ताः क्षायोपशमिकाः ताश्च तिर्यग्नराणां / नन्ववधिज्ञानं क्षायोपशमिके भावे प्रोक्तं, नारकादिभवस्त्वौदयिकः, ततः स कथं तासामवधिप्रकृतीनां प्रत्ययो भवितुमर्हति ?, नैष दोषः तासामपि क्षयोपशमनिबन्धनत्वात् , केवलमसौ क्षयोपशमस्तस्मिन्नारकामरभवे सत्यवश्यम्भावीति भवप्रत्ययास्ता इत्युक्तं // 25 // साम्प्रतं सामान्यरूपतयोद्दिष्टानामवधिप्रकृतीनां वाचः क्रमवर्त्तित्वादायुषश्चा- ल्पत्वाद्यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नियुक्तिकृदाह कत्तो मे वण्णेउं, सत्ती ओहिस्स सव्वपयडीओ?। चउदसविहनिक्खेवं, इड्डीपत्ते य वोच्छामि // 26 // कुतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः१, नैवेत्यर्थः, तथापि विनेयजनानुग्रहार्थ चतुर्दशविधनिक्षेपमवधिसम्बन्धिनं, आमोषध्यादिलक्षणं ऋद्धिं प्राप्ताः ताश्च वक्ष्ये, चः समुच्चये॥२६॥ तत्र चतुर्दशविधनिक्षेपं प्रतिपिपादयिषुस्तद्वारगाथाद्वयमाह ओही खित्तपरिमाणे, संठाणे आणुगामिए / अवट्ठिए चले तिव्वमंदपडिवाउप्पया इअ // 27 // नाणदसणविन्भंगे, देसे खित्ते गई इअ। इड्डीपत्ताणुओगे य, एमेआ पडिवत्तीओ॥२८॥ इहावध्यादीनि गत्यन्तानि चतुर्दशद्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदर्श, अवधेर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं 1, तथा जघन्यमध्यमोत्कृष्टभेदभिन्नक्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः 2, एवं संस्थानविषयः३, अथवा 'अर्थवशाद्विभक्तिपरिणामः,' अवधिशब्दश्च द्विरावय॑ते, ततश्चावधेजघन्यादिभेदभिन्न क्षेत्रप्रमाणं वक्तव्यं 2, तथा संस्थानं 3, अनु // 52 //