SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अवधेभदाः आवश्यकनियुक्तेरव चूर्णिः // 51 // कर्तव्यः, मा भूत् प्राथमिकविनेयानां मतिभेदः, द्वितीयः सूत्रस्पर्शिकनियुक्तिमिश्रकः कार्य इति भणितो जिनादिभिः, तृतीयश्च निरवशेषः-प्रसक्तानुप्रसक्तप्रतिपादनपरः। एष विधिरुक्तरूपो भवति, व? सूत्रस्य निजेनाभिधेयेन सार्द्धमनुकूलो योगोऽनयोगः-सूत्रव्याख्या, तत्र व्याख्याविषये इत्यर्थः। ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथं ?, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारश्रवणं कार्यते, न कश्चिदोषः, अथवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिः, उद्घटितज्ञविनेयानां सकृच्छ्रवणत एवाशेषग्रहणदर्शनात् // 24 // उक्तं श्रुतस्वरूपं, सम्प्रत्यवधिज्ञानमेवाह संखाईआओखलु, ओहीनाणस्स सव्वपयडीओ। काओ भवपच्चइया, खओवसमिआओकाओऽवि // 25 // ___ सङ्ख्यामतीताः सङ्ख्यातीताः, असङ्खयेया इत्यर्थः, सङ्ख्यातीतमनन्तमपि भवति ततश्चानन्ता अपीति द्रष्टव्यं, खलुः विशेषणार्थः, स चैतद्विशिनष्टि-क्षेत्रकालाख्यप्रमेयापेक्षया सङ्ख्यातीताः, द्रव्यभावाख्यप्रमेयापेक्षया त्वनन्ता इति, अवधिज्ञानस्य प्राग्निरूपितशब्दार्थस्य प्रकृतयो-भेदाः, सर्वाश्च ताःप्रकृतयश्चेति, इयमत्र भावना-इहावधेर्लोकक्षेत्रासङ्ख्येयभागादारभ्य प्रदेशवृद्ध्या असङ्ख्येयलोकपरिमाणमुत्कृष्टमालम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाया असङ्ख्येयभागादारभ्य समयवृद्ध्या खल्वसङ्ख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः। ज्ञेयभेदाच्च ज्ञानस्य भेद इति क्षेत्रकालावधिकृत्याऽसद्धयेयास्तत्प्रकृतयः, तथा तैजसवागद्रव्यापान्तरालवय॑नन्तप्रादेशिकद्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्त्तद्रव्याण्युत्कृष्ट विषयपरिमाणं द्रव्यतः, प्रतिवस्तुगतासङ्ख्येयपर्यायपरिमाणं विषयमानं भावतः, ज्ञेयभेदे च ज्ञानस्यापि भेद इति समस्तं पुद्गलास्तिकायं तत् पर्यायांश्चाङ्गीकृत्यानन्ता अवधेः * // 51 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy