________________ आवश्यकनियुक्तेरव चूर्णिः अनुयोगविधिः गा.२३-२४ // 50 // पूर्व शुश्रूपते-विनययुक्तो गुरुवदनाद्विनिर्गच्छद्वचनं श्रोतुमिच्छति, ततः प्रतिपृच्छति यत्र शङ्कितं भवति, तत्र भूयोऽपि पृच्छति, यद्गुरुः कथयति तत् सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति, श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा चेहते पूर्वापराऽविरोधेन पर्यालोचयति, चः समुच्चये, अपिशब्दः पर्यालोचयन् किञ्चित्स्वबुद्ध्याप्युत्प्रेक्षते इति सूचनार्थः, ततो अपोहते च एवमेतद्यदादिष्टमाचार्येण नान्यथा, ततस्तमर्थ निश्चितं स्वचेतसि विस्मृत्यऽभावार्थ सम्यग् धारयति, करोति च सम्यक्-यथोक्तमनुष्ठानं, यथोक्तानुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः, तदावरणकर्मक्षयोपशमनिमित्तत्वात् , यद्वा यद्यदाज्ञापयति गुरुस्तत्तत्सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते, पूर्व सन्दिष्टस्य (ष्टश्च) सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः सम्यक् शृणोति, शेषं पूर्ववत् // 22 // तदेवं व्याख्याता गुणाः, सम्प्रति यत् शुश्रूषते इत्युक्तं तत्र श्रवणविधिमाह मूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा। तत्तो पसंगपारायणं च परिणिट्ट सत्तमए // 23 // प्रथमतो मूकं शृणुयात् , प्रथमश्रवणे संयतगात्रस्तूष्णीमासीतेत्यर्थः, द्वितीये हुङ्कारं च दद्याद्वन्दनं कुर्यादित्यर्थः, तृतीये बाढकारं कुर्यादेवमेतन्नान्यथेति प्रशंसेत् , चतुर्थे श्रवणे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति भावः, षष्ठे तदुत्तरोत्तरगुणप्रसङ्गं पारगमनं चास्य भवति, परिनिष्ठः सप्तमे श्रवणे, गुरुवदनुभाषते इत्यर्थः // 23 // एवं श्रवणविधिरुक्तः, साम्प्रतं व्याख्यान विधि]मभिधित्सुराहसुत्तत्थो खलु पढमो, बीओ निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही होइ अणुओगे // 24 // प्रथमोऽनुयोगः सूत्रार्थः-सूत्रार्थप्रतिपादनपर एव, खलु एवार्थः, गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिधानलक्षण एव | // 50 //