________________ अनमीशते, पूर्वाणाध्ययनानि-उत्थानाग दर्शयता व्याः श्रुतज्ञान्युपत्ता पायो गुर्वाधीन आवश्यकनिर्युक्तेरव चूर्णिः यथा श्रुत लामः गा. 21 बुद्धिगुणाः गा. 22 // 49 // पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात्तेषां च दुर्मेधस्त्वात् , स्त्रीणां तु पूर्वाध्ययनानधिकार एव, तासां तुच्छत्वादिदोषबहुलत्वात् / तत्र चातिशेषाध्ययनानि-उत्थानश्रुतादीनि भूतवादो-दृष्टिवादः। ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य विरचनमितिगाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातम् / तदेवं प्रतिपादितं स्वरूपेण श्रुतज्ञानं, साम्प्रतं विषयद्वारेण निरूप्यते-श्रुतज्ञानं चतुर्की, द्रव्यादिभेदात् , तत्र द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वद्रव्याणि जानाति, नतु पश्यति, एवं सर्व क्षेत्रं सर्वकालं सर्वान् भावान् // 20 // इदं च श्रुतं सर्वातिशयरत्नसमुद्रकल्पं प्रायो गुर्वाधीनं च ततो विनेयजनानुग्रहार्थ यो यथा चाऽस्य लाभस्तं दर्शयति आगमसत्थग्गहणं, जं बुद्धिगुणेहि अट्टहिं दिढ। बिति सुयनाणलंभ, तं पुब्बविसारया धीरा // 21 // आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणरूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः 'पुन्नाम्नीतिकरणे घः, स चैवंव्युत्पत्त्याऽवधिकेवलादिरूपोऽपि प्राप्नोति, तद्व्यवच्छेदार्थ विशेषणमाह-शिष्यतेऽनेनेति शास्त्रं चेति, आगमग्रहणेन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः, तेषां यथावस्थितार्थप्रकाशनाभावेनानागमत्वात् , आगमशास्त्रस्य ग्रहणं, यद् बुद्धिगुणैः वक्ष्यमाणैः करणभूतैरष्टभिदृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभं ब्रुवते, पूर्वेषु विशारदाः पूर्वविशारदाः, धीराः-व्रतप्रतिपालने स्थिराः, किमुक्तं भवति ? यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतं, न शेषं // 21 // बुद्धिगुणैरष्टभिरित्युक्तं अतस्तानेवाह सुस्सूसइ पडिपुच्छह, सुणेइ गिण्हइ य ईहए वावि / तत्तो अपोहए या, धारेइ करेइ वा सम्मं // 22 // |49 // आव०चू०५