________________ आवश्यकनियुक्तेरव चूर्णिः सम्यक्श्रुतादि // 48 // अथवा द्रव्यादिचतुष्टयमधिकृत्य साद्यनाद्यादि भावनीयम् , तद्यथा-एकं पुरुषं प्रतीत्य सादिसपर्यवसितं, नानाजीवानाश्रित्यानाद्यपर्यवसितं, कदाचिदपि व्यवच्छेदाभावात् , क्षेत्रतः पञ्चभरतानि पञ्चैरवतानि प्रतीत्य सादिसपर्यवसितं] सुषमसुषमादावभावात् , पञ्चमहाविदेहानधिकृत्यानाद्यपर्यवसितं, सकलकालं तत्र भावात् , कालतः उत्सर्पिणीमवसर्पिणीं चाधिकृत्य सादिसपर्यवसितं, तृतीयाधरकेष्वेव भावात्, नोत्सर्पिण्यवसर्पिणीमधिकृत्यानाद्यपर्यवसितं, महाविदेहेषु सततं भावात् , भावतः प्रज्ञापकगतानुपयोगस्वरप्रयत्नस्थानविशेषादीन् भावान् ज्ञेयगतांश्च गतिस्थानभेदसङ्घातवर्णरसगन्धस्पर्शादीन् भावान् प्रतीत्य सादिसपर्यवसितं, इदमुक्तं भवति-प्रज्ञापकोपयोगादयो हि प्रयत्नादिनिर्वय॑त्वादनित्या एव, यच्चाऽनित्यं तद् घटवत् सादिसपर्यवसितमिति प्रतीतमेव, अतस्तदाऽऽश्रयं श्रुतमपि तद्रूपमेवेति / क्षायोपशमिकं पुनरङ्गीकृत्यानाद्यपर्यवसितं, तस्य सर्वकालं भावात् , खलुशब्द एवकारार्थः स चावधारणे तस्य च व्यवहितः सम्बन्धः, सप्तैवैते श्रुतपक्षाः [सप्रतिपक्षाः], न पुनः पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् / गमिकद्वार-तत्र गमाः-भङ्गकाः गणितादिविशेषाश्च, यदिवा कारणवशतो ये सदृशपाठास्तेऽस्य सन्तीति गमिकं, अतोऽनेकस्वरात् मत्वर्थीय इकप्रत्ययः, तच्च प्रायो दृष्टिवादः, गाथाद्यऽसमानग्रन्थमगमिक, तच्च प्रायः कालिकं / नन्वङ्गप्रविष्टानङ्गप्रविष्टयोः कः प्रतिविशेषः?, उच्यते, यद्गणधरैः साक्षाद्वद्धं तदङ्गप्रविष्टं तच्च द्वादशाङ्गं, यत्पुनः स्थविरैर्भद्रबाहुस्वाम्यादिभिरुपनिबद्धं तदनङ्गप्रविष्टं, तच्च आवश्यकनियुक्त्यादि / ननु पूर्व तावत् पूर्वाणि गणधरैरुपनिबद्ध्यन्ते, पूर्व करणात् पूर्वाणि, पूर्वेषु च सकलवाङ्मयस्यावतारः, न खलु तदस्ति यत्पूर्वेषु | नास्त्यभिहितं, ततः किं शेषाङ्गविरचनेनाङ्गबाह्यविरचनेन वा ?, उच्यते, इह विचित्रा जगति प्राणिनः, तत्र ये दुर्मेधसस्ते // 48 //