SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ है . संज्ञिश्रुतादि आवश्यकनियुक्तरव चूर्णिः // 47 // 38888888* पदेशेन दृष्टिवादोपदेशेन, तत्र यया संज्ञया सुदीर्घमपि कालमतीतमर्थ स्मरति एष्यन्तं च चिन्तयति स [दीर्घकालिकोपदेशेन संज्ञी, दीर्घः कालः] दीर्घकालः सो अस्यास्तीति दीर्घकालिकः स चासावुपदेशश्च, उपदेशो भणनं, दीर्घकालिकोपदेशः, ततः मनोज्ञानावरणकर्मक्षयोपशमवशान्मनोलब्धिसम्पन्नो अनन्तान्मनोयोग्यान पुद्गलान् गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्तुजातं, तेनाऽसौ गर्भजस्तिर्यङ्मनुष्यो वा देवो नारको वा द्रष्टव्यो, न शेष एकेन्द्रियादिः, विशिष्टमनोलब्धिविकलत्वात् , तथा च सति दीर्घकालिकोपदेशेनाऽसंज्ञी एकेन्द्रियो द्वीन्द्रियादिश्च प्रतिपत्तव्यः, तथा हेतुर्निमित्तं कारणं, तस्य वदनं वादस्तद्विषय उपदेशः-प्ररूपणं स [हेतुवादोपदेशः] तेन संज्ञी, यो बुद्धिपूर्वकं स्वदेहपरिपालनायेष्टेष्वाहारादिषु प्रवत्तते अनिष्टेभ्यस्तु निवर्त्तते, स च द्वीन्द्रियादिरपि ज्ञेयः, तस्यापि मनःसञ्चिन्तनपूर्वकमिष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् , केवलमस्य मनश्चिन्तनं प्रायो वर्तमानकालविषयं, न भूतभविष्यद्विषयं, अल्पमनोलब्धिसम्पन्नत्वात् , ततो नादिमः संज्ञी लभ्यते, एतन्मतेनाऽसंज्ञिन एकेन्द्रिया एव / तथा दृष्टिदर्शनं-सम्यक्त्वादि, तस्य वदनं वादस्तद्विषय उपदेशः-प्ररूपणं तेन संज्ञी-सम्यग्दृष्टिस्तस्य संज्ञा ज्ञानावरणकर्मक्षयोपशमभावात् , असंज्ञी मिथ्यादृष्टिः, संज्ञिनः श्रुतं संज्ञिश्रुतं, असंज्ञिनः श्रुतमसंज्ञिश्रुतं 2 / तथा सम्यक्श्रुतं-अङ्गानङ्गप्रविष्टमाचारावश्यकादि, मिथ्या श्रुतं-पुराणरामायणभारतादि, सर्वमेव वा दर्शनपरिग्रहविशेषात्सम्यक्श्रुतमितरद्वा, तथाहि सम्यग्दृष्टौ सर्वमपि [श्रुतं सम्यक् ] श्रुतं, हेयोपादेयशास्त्राणां हेयोपादेयतया परिज्ञानात् , मिथ्यादृष्टौ सर्व मिथ्याश्रुतं विपर्ययात् 3 / तथा सादिसपर्यवसितमनाद्यपर्यवसितं च नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयमतादेशेनानाद्यपर्यवसितं, नित्यत्वात् धर्मास्तिकायादिवत् , पर्यायास्तिकनयमतादेशेन सादिसपर्यवसितं [अनित्यत्वात् नारकादिपर्यायवत् , *********** // 47 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy