SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः अनक्षरश्रुतादिखरूपम् // 46 // समुच्चये, क्षवणं क्षुतं, चः समुच्चयार्थ एव, अस्य च व्यवहितसम्बन्धः, सेण्टितादि चानक्षरश्रुतमिति, निःसिङ्घनं निःसिवितं | अनुस्वारवदनुस्वारं मत्वर्थीयात् प्रत्ययविधानादनक्षरमपि यदनुस्वारवदुच्चार्यते हुङ्कारकरणादिवत्तदनक्षरमित्यर्थः, एतदुच्छसितादि अनक्षरं-अनक्षरश्रुतं, न केवलमेतत् , किन्तु सेण्टनं सेण्टितं चौरमिलनसंज्ञा, एतदादि चानक्षरश्रुतं / इह चोच्छसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रत्वात् , अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् / ननु यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते ?, येनोच्छसितायेवोच्यते, उच्यते, रूढ्या, अथवा श्रूयते इति श्रुतं, अन्वर्थसंज्ञामधिकृत्योच्छुसितायेव श्रुतं, न चेष्टा तदभावात् , अनुस्वारादयस्त्वर्थगमकत्वादेव श्रुतं 1 / संज्ञिद्वार-संज्ञीति कः शब्दार्थः?, उच्यते, संज्ञानं संज्ञा, साऽस्यास्तीति संज्ञी, ननु यदि संज्ञासम्बन्धमात्रेण संज्ञी तत एकेन्द्रिया अपि संज्ञिनः प्राप्नुवन्ति, तेषामप्याहारादिसंज्ञासद्भावात् / तथा च प्रज्ञापनासूत्रम्-"एगिंदियाणं भंते ! कइविहा सण्णा पण्णत्ता ?, गोयमा! दसविहा पन्नत्ता, तंजहा-आहारसण्णा 1 भयसण्णा 2 मेहुणसण्णा 3 परिग्गहसण्णा 4 कोहसण्णा 5 माणसण्णा 6 मायासण्णा 7 लोहसण्णा 8 ओहसण्णा 9 लोगसण्णा 10" इति, सत्यमेतत्, केवलमेतासु मध्ये या ओघसंज्ञा लोकसंज्ञा वा सा अतिस्तोका, ततो न तत्सम्बन्धमात्रेण संज्ञीति व्यपदेष्टुं शक्यः, न खलु कार्षापणधनमात्रेण लोके धनवानित्युच्यते, या त्वाहारादिसंज्ञा सा क्षयोपशमजन्याऽमनोज्ञा भूयस्यपि मोहनीयोदयप्रभवत्वेन न विशिष्टा, न चाऽविशिष्टया संज्ञया संज्ञीत्यभिधातुं शक्यं, न ह्यविशिष्टेन मूर्त्तिमात्रेण लोके रूपवानिति व्यवहारः। ततो या महती शोभना च ज्ञानावरणकर्मक्षयोपशमजन्या मनोज्ञानरूपा संज्ञा तयैव संज्ञीति व्यपदिश्यते,सचसंज्ञी त्रिविधस्तद्यथा-दीर्घकालो(लिको)पदेशेन हेतुवादो // 46 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy