SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चतुर्दश आवश्यक निर्युक्तेरव चूर्णिः // 45 // मितत्वाद्वाचः क्रमवर्तित्वाच्चातोऽशक्तिः। निक्षेपणं निक्षेपो-नामादिन्यासः, चतुर्दशविधश्चासौ निक्षेपः, श्रुतज्ञाने श्रुतज्ञानविषयं, चात् श्रुताज्ञानविषयमपिशब्दादुभयविषयं च, तत्र श्रुतज्ञाने-सम्यक्श्रुते श्रुताज्ञाने-असंज्ञिमिथ्याश्रुते उभयश्रुतेदर्शनविशेषपरिग्रहादक्षरादिरूपे वक्ष्ये // 18 // चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनार्थमाह अक्खर सण्णी सम्मं, साईयं खलु सपज्जवसिअंच / गमियं अंगपविट्ठ, सत्तवि एए सपडिवक्खा // 19 // अक्षरादीनि सप्तद्वाराणि अनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति, सर्वत्र श्रुतशब्दो द्रष्टव्यः, अक्षरश्रुतमनक्षरश्रुतमित्यादि, 'क्षर [सं] चलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं-चेतनेत्यर्थः, न खल्विदमनुपयोगेऽपि प्रच्यवते ततो अक्षरमिति भावः, इत्थम्भूतभावाक्षरकारणत्वादकारादिकमप्यक्षरमभिधीयते, कारणे कार्योपचारात्, अथवा अर्थान् क्षरति न च क्षयं उपयातीत्यक्षरं, तच्च त्रिधा-व्यञ्जनाक्षरं संज्ञाक्षरं, लब्ध(ब्ध्य)क्षरं, तत्र व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च तदक्षरं च व्यञ्जनाक्षरं, तच्चेह भाष्यमाणं सर्वमेवाकारादि हकारान्तं, अर्थाभिव्यञ्जकत्वाच्छब्दस्य 1 / संज्ञाक्षरमक्षराकारविशेषो यथा घटिकासंस्थानो धकार इत्यादि, तच्च ब्राहयादिलिपीविधानेनाऽनेकविधं / यो अक्षरोपलम्भस्तल्लब्ध्यक्षरं, तच्चेन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि ज्ञानं तदावरणकर्मक्षयोयशमो वा, तत्र व्यञ्जनाक्षरं संज्ञाक्षरं च द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात् , लब्ध्यक्षरं तु भावाक्षरं विज्ञानात्मकत्वात् // 19 // उक्तमक्षरश्रुतं, अनक्षरश्रुतस्वरूपमाह ऊससि नीससि निच्छूढं खासिअंच छीअंच ।णीसिंधियमणुसार, अणक्खरं छेलियाईअं॥२०॥ उच्छसनमुच्छसितं, भावे क्तः प्रत्ययः, निःश्वसनं निश्वसितं निष्ठीवनं निष्ठयूतं थूत्कृतमित्यर्थः, कासनं कासितं, चः विधश्रुतनिक्षेपखरूपम् गा. 19 अनक्षरश्रुतादिखरूपम् गा. 20 // 45 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy