________________ आवश्यकनियुक्तेरव चूर्णिः // 44 // Sacc एकं 2 प्रति प्रत्येकं अक्षराणि-अकारादीन्यनेकभेदानि, तद्यथा-अकारः-सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधाउदात्तोऽनुदात्तः स्वरितश्चेति षोढा, एवं दीर्घः प्लुतश्चेत्यष्टादशाऽवर्णभेदाः, एवमिवर्णादिष्वपि यथासम्भवं भेदजालं वक्तव्यं / तथा अक्षराणां संयोगा अक्षरसंयोगा व्यादयो यावन्तो लोके यथा घटः पट इत्यादि व्याघहस्तीत्यादि च, एते चानन्ताः, तत्राप्येकैकोऽनन्तपर्यायः स्वपरापेक्षया (स्वपर) पर्यायापेक्षया। ननु सङ्ख्येयान्यकारादीन्यक्षराणि ततस्तेषां संयोगा अपि सङ्ख्येया एव घटन्ते, कथमनन्ताः?, उच्यते, इह पुद्गलास्तिकायादिकमभिधेयं, परस्परविलक्षणमनन्तं च, तद्यथा-परमाणुर्द्विप्रदेशिकस्त्रिप्रदेशिको यावदनन्ताणुक इत्यादि / अभिधेयभेदे चाऽभिधानस्य भेदः, अभिधानभेदस्याभिधेय [भेदहेतुकत्वात् , एकत्रापि चाभिधेये अमिधेय] धर्मभेदतोऽनेकाभिधानप्रवृत्तिर्यथा परमाणुर्निरंशो निरवयवो निष्प्रदेशो निर्भेदः, तथा व्यणुको व्यंशो व्यवयवो द्विप्रदेशो द्विभेद इत्यादि, न चैते ध्वनयः सर्वथा एकाभिधेयवाचकाः, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात् , एवं सर्वद्रव्येषु सर्वपर्यायेषु च यथायोगं भावनीयं, ततो भवन्त्यनन्ता अक्षरसंयोगाः, 'एतावत्यः' इयत्परिमाणाः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः // 17 // सम्पति सामान्यरूपतयोपदर्शितानामनन्तानां श्रुतप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनः खल्वपश्यन्नाह कत्तो मे वण्णेउं सत्ती सुयणाणसवपयडीओ?। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि // 18 // कुतो मे-मम वर्णयितुं-प्रतिपादयितुं शक्तिः-सामर्थ्य ?, नैवेत्यर्थः, काः ?-'श्रुतज्ञानसर्वप्रकृती' प्रकृतयो-भेदाः, कथं न शक्तिः ?, उच्यते, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च 'तेवि अ मई| विसेसा सुअनाणभंतरे जाण' तांश्चोत्कृष्टश्रुतधरोऽप्यभिलाप्यानपि सर्वान्न भाषितुं समर्थः, तेषामनन्तत्वात् आयुषः परि श्रुतप्रकृतयः गा. 17 श्रुतप्रकतीनां यथावझेदेन प्रतिपादनासामर्थ्यम् गा.१८ // 44 //