SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः मतिमेदोपदशनं श्रुतप्रकृतिकथनप्रतिज्ञा च गा.१६ // 43 // गुणाः, तेभ्योऽप्युत्कृष्टपदिनः पूर्वप्रतिपन्ना विशेषाधिकाः 9 // सम्प्रति यथाव्यावर्णितमतिभेदसञ्जयाप्रदर्शनद्वारेणोपसंहरन्नाह आभिणियोहियनाणे, अट्ठावीसइ हवंति पयडीओ। सुअनाणे पयडीओ वित्थरओ आवि वोच्छामि // 16 | आमिनिबोधिकज्ञाने अष्टाविंशतिर्भवन्ति प्रकृतयो भेदा इत्यर्थः, ताः पूर्वमेव भाविताः, ननु प्रागवग्रहादिनिरूपणायां 'अत्थाणं ओग्गहण मित्यादौ एताः प्रकृतयः प्रदर्शिता एव किमर्थ पुनः प्रदर्श्यन्ते, नैष दोषः, तत्र हि सूत्रे न सङ्ख्यानियमः कृतः, इह तु सङ्ख्यानियमेनोक्ताः / इदं च मतिज्ञानं चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि जानाति न विशेषतः, किमुक्तं भवति ?-सामान्यप्रकारेणाऽसङ्ख्येयप्रदेशात्मक एव लोकव्याप्यमूर्तः प्राणिपुद्गलानां गतिपरिणामपरिणतानां गत्युपष्टम्भहेतुर्धर्मास्तिकायः, असङ्ख्येयप्रदेशात्मक एव लोकव्याप्यमूर्तः प्राणिपुद्गलानां स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भहेतुरधर्मास्तिकायः, अनन्तप्रदेशात्मको लोकालोकव्याप्यमूर्ती अवकाशदानहेतुराकाशास्तिकायः इत्यादिरूपेण षडपि द्रव्याण्यवबुद्ध्यते न तु सर्वविशेषैः, सर्वपर्यायाणां केवलिगम्यत्वात् / एवं सामान्यादेशेन मतिज्ञानी क्षेत्रतो लोकालोकं जानाति, कालतः सर्वकालं, इह यद्यपि क्षेत्रकालौ सामान्येन द्रव्यान्तर्गतौ तथापि निवासमात्रपर्यायमधिकृत्य क्षेत्रं वर्तनादिरूपतां चाधिकृत्य कालो भेदेन रूढ इति पृथगुपादानम् , भावत औदयिकादीन् पञ्च भावान् जानाति / तदेवमुक्तं मतिज्ञानं, साम्प्रतं श्रुतज्ञानमभिधित्सुराह-'सुअनाणे'त्ति उत्तरार्द्ध, श्रुतज्ञाने प्रकृतयो-भेदास्ता विस्तरतः चशब्दात्सङ्केपतश्च, अपिः सम्भावने, स च एतदनन्तरमबधिप्रकृतीश्चेति सम्भावयति, वक्ष्ये // 16 // अथ श्रुतप्रकृतीदर्शयति पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए / एवइया पयडीओ, सुयनाणे हुति णायवा // 17 // // 43 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy