________________ आवश्यकनिर्युक्तेरव-| चूर्णिः स्पर्शनाकालादि // 42 // क्षायोपशमिकदर्शनेन कश्चिदुत्पद्यते, नन्वधः सप्तमपृथिव्यामपि सम्यक्त्वलाभस्य प्रतिपादितत्वादागच्छतः पञ्चसप्त(पञ्चचतुर्दश)| भागाधिकक्षेत्रसम्भवः ?, उच्यते, एतदयुक्तं, सप्तमनरकात्सम्यग्दृष्टेरागमनस्याप्यभावात् , कथं ?, यस्मात् तत उद्वृत्तास्तिर्यक्ष्वेवाऽऽगच्छन्तीति प्रतिपादितं,अमरनारकाश्च सम्यग्दृशो मनुष्येष्विति ३।स्पर्शनाद्वारे स्पर्शना क्षेत्रादधिका, यथा परमाणोरेकप्रदेश क्षेत्रं सप्तप्रदेशा च स्पर्शना 4 / कालद्वारे उपयोगमधिकृत्यैकस्यानेकेषां च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्र एव, लब्धिमङ्गीकृत्य जघन्येनैकस्यान्तर्मुहूर्त्त उत्कर्षतः षट्षष्टिसागरोपमाण्यधिकानि, कथं ?, उच्यते, विजयादिषु त्रयस्त्रिंशत्सागरस्थितिकेषु देवेषु वारद्वयं गतस्य अथवाऽच्युते द्वाविंशतिसागरस्थितिकेषु देवेषु त्रीन्वारान् गतस्य षट्षष्टिसागरोपमाणि भवन्ति, अधिकं चेह नरभवसम्बन्धिपूर्वकोटीनां त्रयं चतुष्टयं वा द्रष्टव्यं, नानाजीवाऽपेक्षया तु सर्वकालं,न यस्मादाभिनिबोधिकलब्धिमच्छ्रन्यो लोकः कदाचिदपि 5 / अन्तरद्वारे तत्रैकजीवमधिकृत्य मतेरन्तरं जघन्येनान्तर्मुहूर्त, कथं?, यदा कश्चिज्जीवः सम्यक्त्वसहितं मतिमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा पुनरपि तदावरणकर्मक्षयोपशमात् सम्यक्त्वं (सम्यक्त्वसहित) मतिज्ञानमवाप्नोति इति, उत्कर्षतस्तु अपार्द्धपुद्गलपरावर्त्तः सर्वाऽऽशातनाप्रचुरस्य, उक्तं च-"तित्थयरपवयणसुअं आयरिअं गणहरं महड्डिअं। आसायंतो बहुसो अणंतसंसारिओ होइ // 1 // (वि०४३७)" तथा नानाजीवानपेक्ष्यान्तराभावः, मतिज्ञानिमिर्लोकस्य सदाऽशून्यत्वात् 6 / भागद्वारे मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते, शेषज्ञानिनो हि सिद्धकेवलिसहिता अज्ञानिनस्तु वनस्पतिसहिता अनन्ताः, मतिज्ञानिनस्तु सर्वलोकेऽप्यसङ्ख्याता एवेति भावद्वारे मतिज्ञानिनः क्षायोपशमिके भावे वर्तन्ते, मत्यादिचतुष्टयस्य क्षायोपशमिकत्वात् 8 / अल्पबहुत्वद्वारे सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, तेभ्यः पूर्वप्रतिपन्ना जघन्यपदिनोऽसङ्ख्यात K * * * * // 42 //