SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः उपयोगादीनि द्वाराणि मतिज्ञानि जीवद्रव्यप्रमाणम् // 41 // भाषालब्धिसम्पन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा गतिवत् , भाषालब्धिशून्याश्चोभयविकलाः, ते ह्येकेन्द्रिया एव, तेषां चोभयाभावः 14 / परीत्तद्वारे परीत्ताः-प्रत्येकशरीरिणः परीत्तीकृतसंसारा वा स्तोकावशेषसंसारा इत्यर्थः, एते उभयेऽपि गतिवत् , अपरीत्तास्तु साधारणशरीरिणोऽपार्द्धपुद्गलपरावादप्युपरि [संसाराः] वा, ते मिथ्यादृष्टित्वादुभयेऽप्युभयविकलाः 15 / पर्याप्तकद्वारे षभिराहारादिपर्याप्तिभिः पर्याप्तकाः पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः, अपर्याप्तास्त्वाद्याः नान्ये 16 / सूक्ष्मद्वारे सूक्ष्माः समूर्छनजनरास्ते खलूभयविकलाः, बादरेषु तु केवलज्ञानस्याभिधानात् तत्र गर्भजनरा ज्ञेयाः, अतो गतिवत् 17 / संज्ञिद्वारे इह दीर्घकाल(लिकी)व्यपदेशेन संज्ञिनो गृह्यन्ते, ते च गतिवत् , असंज्ञिनस्त्वाद्या एव, नेतरे 18 / भवद्वारे भव इति भवसिद्धिकास्ते च गतिवत् , अभवसिद्धिकास्तूभयविकलाः 19, चरमद्वारे चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमाः, ते गतिवत्, अचरमास्तूभयविकलाः 20, मतिज्ञानमेतेषु गत्यादिषु मार्गणास्थानेषु मार्गितमुक्तप्रकारेणेति // साम्प्रतमामिनिबोधिकजीवद्रव्यप्रमाणमुच्यते-पूर्वप्रतिपन्ना जघन्यतः क्षेत्रपल्योपमाऽसवेयभागप्रदेशराशिप्रमाणाः, उत्कर्षतस्तु तेभ्यो विशेषाधिकाः, प्रतिपद्यमानकास्तु स्युन वा, यदि स्युस्तदा एको द्वौ त्रयो वा उत्कर्षतस्तु क्षेत्रपल्योपमाऽसङ्ख्येयभागप्रदेशराशिप्रमाणाः 2 / क्षेत्रद्वार-नानाजीवानङ्गीकृत्य सर्व एव मतिज्ञानिनो लोकस्याऽसङ्ख्येयभागे वर्तन्ते, एकजीवस्त्विलिकागत्या गच्छन् ऊद्धमनुत्तरसुरेषु सप्तचतुर्दशभागेषु रजुप्रमाणेषु वर्तते, तेभ्यो वा आगच्छन् , अधस्तु षष्ठी पृथ्वीं गच्छन् ततो वा प्रत्यागच्छन् पश्चसु चतुर्दशभागेषु, नातः परमधः क्षेत्रमस्ति, यस्मात्सम्यग्दृष्टेरधः सप्तमनरकगमनं प्रतिषिद्धं, षष्ठीमपि पृथिवीं यावत्सि(त्सै)द्धान्तिकमतेन विराधितसम्यक्त्वो गृहीतेनापि // 41 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy