________________ आवश्यकनिर्युक्तेरव चूर्णिः निश्चयव्यवहाराभ्यां ज्ञानलाभ: // 40 // ज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु कदाचिद्विवक्षितकाले प्रतिपद्यमानका भवन्ति, नापरे / निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति अन्येऽपि सम्भवन्ति, सम्यग्दर्शनलाभसमय एव मत्यादिलाभस्य सम्भवात् क्रियाकालनिष्ठाकालयोश्चाभेदात् , मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, नापरे, पूर्व सम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चात् यत्यवस्थायां मनःपर्यायज्ञानसद्भावात् , केवलिनां तूभयाभावः, मत्यादिज्ञानव्यवच्छेदेन केवलोत्पत्तेः, मत्याद्यज्ञानिषु तूभयाभावः प्रतिपत्तिकियाकाले मत्याद्यज्ञानाभावात् , क्रियाकालनिष्ठाकालयोरभेदात् , अज्ञानभावे प्रतिपत्तिक्रियाया अभावात् 9 / दर्शनद्वारे दर्शनं चतुर्दा, चक्षुरचक्षुरवधिकेवलभेदात्, आद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, अन्ये भाज्याः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, नान्ये, मतिज्ञानस्य लब्धित्वात् , लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् , 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उववजंति' इतिवचनात् , केवलदर्शनिनां तुभयाभावः, अन्यदर्शनव्यवच्छेदेन केवलज्ञानदशनोत्पत्तेः 10 / संयतद्वारे संयतः पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानकस्तु भाज्यः, ननु सम्यक्त्वलाभावस्थायामेव मतेः प्रतिपन्नत्वात्संयतः कथं प्रतिपद्यमानको अवाप्यते?, सत्यमेतत् , केवलं योऽति| विशुद्धत्वात्सम्यक्त्वं चारित्रं च युगपत्प्रतिपद्यते स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्याप्रतिपन्नत्वात्संयतो मतेः प्रतिपद्यमानको भवति 11 / उपयोगद्वारे, स द्विधा-साकारो अनाकारश्च, तत्र पञ्च ज्ञानानि त्रीण्यज्ञानानि च साकारः, चत्वारि दर्शनान्यनाकारः, तत्र साकारोपयोगे पूर्वप्रतिपन्नाः सन्ति, अन्ये भाज्याः, अनाकारोपयोगे आद्या एव, नान्ये, तत्र लब्ध्युत्पत्तेरभावात् 12 / आहारकद्वारं, आहारके गतिवत् , अनाहारके अपान्तरालगतौ आद्याः, नान्ये 13 / भाषकद्वारे // 4 //